कौषीतकिब्राह्मण · अध्याय 27.8
आत्मानम्.पूर्वम्.आह ।
तथा.अस्य.आत्मा.अनन्तरिता.भवति ।
वातापेर्.हवन.श्रुत.इति ।
इन्द्रो.वै.वातापिः ।
स.ह.वातम्.आप्त्वा.शरीरान्.निरहन् ।
प्रतिपरैत्य्.अध्वर्युः ।
सो.अनिरुक्ते.गार्हपत्ये.प्राजापत्ये.द्वे.आहुती.जुहोति । (सोम: दशमम्.अहह्)
प्रजापतिर्.वै.गार्हपत्यः ।
अनिरुक्त.उ.वै.प्रजापतिः ।
आहुति.संस्थे.उ.वै.स्तुत.शस्त्रे । (सोम: दशमम्.अहह्)
समाप्तम्.स्तोत्रम्.समाप्तम्.शस्त्रम्.समाप्तम्.ब्रह्म.उद्यम् ।
अतो.न्व्.एव.अपि.काम.यजेयुः । (सोम: दशमम्.अहह्)
अथ.भक्षयेयुः ।
अयम्.वै.वेनः.प्रजापतेः.प्रत्यक्षम्.तन्वस्.ता.होता.वदेत् । (सोम: दशमम्.अहह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0