कौषीतकिब्राह्मण · अध्याय 27.10
औदुम्बरीम्.अन्वारभन्ते ।
ऊर्ग्.वै.अन्न.अद्यम्.उदुम्बरः ।
ऊर्जो.अन्न.अद्यस्य.उपाप्त्यै ।
उत्तमौ.पाणी.होता.कुर्वीत । (सोम: दशमम्.अहह्)
उत्तमो.असानि.इति ।
उत्तमो.ह.एव.भवति ।
ते.वाचम्.यमा.आसत.आ.नक्षत्राणाम्.दर्शनात् । (सोम: दशमम्.अहह्)
वाचम्.ह.वा.एतद्.भूतान्य्.आप्याययन्ति.यद्.वाचम्.यमानि.शेरते । (सोम: दशमम्.अहह्)
आपीनाम्.वाचम्.अव्यासिक्ताम्.अन्तत.ऋध्नवाम.इति ।
दृश्यमानेषु.नक्षत्रेष्व्.अदीक्षितो.बहिस्.तिष्ठन्न्.आह.दीक्षिता.वेद.इति । (सोम: दशमम्.अहह्)
अपोर्णुवन्ति.सदसो.द्वारौ ।
एवम्.शालायै ।
ते.यथा.प्रपन्नम्.उपनिष्क्रम्य.मार्जालीयन्य्.अन्तेन.नक्षत्रेषु.चक्षुर्.विसृजन्ते.तच्.चक्षुर्.देव.हितम्.शुक्रम्.उच्चरद्.इति । (सोम: दशमम्.अहह्)
ज्योतिर्.वै.नक्षत्राणि ।
ज्योतिर्.एव.तद्.आत्मन्.दधते ।
ते.परया.द्वारा.हविर्.धाने.प्रपद्यन्ते । (सोम: दशमम्.अहह्)
अथ.अध्वर्युर्.उत्तरस्य.हविर्.धानस्य.कूबरीम्.अभिपद्य.आह.सत्रस्य.ऋधिम्.गाय.इति । (सोम: दशमम्.अहह्)
गायति.सत्रस्य.ऋधिम् ।
तत्.सत्रस्य.ऋधिम्.आप्नुवन्ति ।
सर्वे.साम्नो.निधनम्.उपयन्ति । (सोम: दशमम्.अहह्)
प्रतिष्ठा.वै.निधनम्.प्रतिष्ठित्या.एव ।
त.उत्तरेण.हविर्.धाने.गच्छन्त्य्.अधोक्षम्.वा.उत्तरस्य.ऐन्द्रीम्.अतिच्छन्दसम्.जपन्तः ।
अतिच्छन्दसा.एव.तद्.अधोक्षम्.पाप्मानम्.अपघ्नते । (सोम: दशमम्.अहह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0