कौषीतकिब्राह्मण · अध्याय 27.7
अथ.यद्.अतिरिक्त.उख्त्यम्.उपयन्ति ।
मन.एव.तत्.प्रीणन्ति ।
तत्.सर्व.यज्ञैर्.अनुशंसन्ति ।
एषा.हि.मनसो.मात्रा ।
संस्थिते.अहनि.पुरा.पत्नी.सम्याजेभ्य.एतस्मिन्.काले.संर्पसर्पन्ति । (सोम: दशमम्.अहह्)
अयज्ञिया.वै.पत्न्यो.बर्हिर्.वेदि.हि.ता.इति.वदन्तः ।
संस्थितेषु.पत्नी.सम्याजेष्व्.इति.त्व्.एव.स्थितम् । (सोम: दशमम्.अहह्)
अत्र.अल्पको.भ्रातृव्य.लोकः.परिशिष्टो.भवति.इति ।
ते.संर्पसृप्य.सार्पराज्ञ्या.ऋक्षु.स्तुवते ।
इयम्.वै.सार्पराज्ञी ।
इयम्.हि.सर्पतो.राज्ञी । (सोम: दशमम्.अहह्)
अथो.वाग्.वै.सार्पराज्ञी ।
वाग्ग्.हि.सर्पतो.राज्ञी ।
अथो.गौर्.वै.सार्पराज्ञी । (सोम: दशमम्.अहह्)
गौर्.हि.सर्पतो.राज्ञीइ ।
आयम्.गौः.पृश्निर्.अक्रमीद्.इत्य्.एतम्.तृचम्.न.अन्तरियात्.स्तोत्रियस्य.आनन्तरित्यै । (सोम: दशमम्.अहह्)
अस्मासु.नृम्णम्.धा.इति ।
अन्नम्.वै.नृम्णम् ।
अन्नम्.एव.तद्.यज्ञे.च.यजमानेषु.च.दधाति । (सोम: दशमम्.अहह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0