कौषीतकिब्राह्मण · अध्याय 27.6
अथ.एषा.देवत्या.अनुष्टुप् ।
अष्टौ.वसव.एकादश.रुद्रा.द्वादश.आदित्या.इन्द्रो.द्वात्रिंश.इत्य्.एषा.देवत्या.अनुष्टुप्.द्वात्रिंशी.भवति । (सोम: दशमम्.अहह्)
अथ.याः.पञ्च.पञ्चाशद्.उद्धृताः ।
चतुश्.चत्वारिंशत्.ताः.पङ्क्तयः । (सोम: दशमम्.अहह्)
ततो.याश्.चत्वारिंशत्.तद्.ऊधः ।
अथ.याश्.चतस्रो.अतियन्ति.ते.स्तनाः । (सोम: दशमम्.अहह्)
सा.एषा.स्तोम.अक्षर.अनुष्टुब्.एतेन.ऊधसा.एतैः.स्तनैर्.एतम्.इन्द्रस्य.आत्मानम्.व्रत्यम्.अहर्.अभिक्षरति । (सोम: दशमम्.अहह्)
सर्वेण.अन्न.अद्येन.सर्वै.रसैः.सर्वैः.कामैः.सर्वेण.अमृतत्वेन.अभिक्षरति ।
एतस्या.उ.एव.विक्षरेण.छन्दोमाः.स्तोमतश्.च.शस्त्रतश्.च.वर्धन्ते । (सोम: दशमम्.अहह्)
यद्.उ.वै.वेद.तन्मयः.सम्भवति ।
स.य.एवंविद्.अस्य.आयुषः.परस्ताद्.एतम्.इन्द्रस्य.आत्मानम्.व्रत्यम्.अहर्.अभिसम्भवति । (सोम: दशमम्.अहह्)
तम्.एषा.स्तोम.अक्षर.अनुष्टुब्.एतेन.ऊधसा.एतैः.स्तनैः.सर्वेण.अन्न.अद्येन.सर्वै.रसैः.सर्वैः.कामैः.सर्वेण.अमृतत्वेन.अभिक्षरति । (सोम: दशमम्.अहह्)
य.एवम्.सम्पन्नम्.दशमम्.अहः.शंसति ।
तस्माद्.एवम्.सम्पन्नम्.दशमम्.अहः.शंसेद्.इति । (सोम: दशमम्.अहह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0