भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 27.5

27.5.1

विराट्सु.वामदेव्यम्.अग्निष्टोम.साम.भवति ।

27.5.2

श्रीर्.विराड्.अन्न.अद्यम् ।

27.5.3

श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै ।

27.5.4

अथो.शान्तिर्.वै.भेषजम्.वामदेव्यम् । (सोम: दशमम्.अहह्)

27.5.5

शान्तिर्.एव.एषा.भेषजम्.अन्ततो.यज्ञे.क्रियते ।

27.5.6

अथ.यत्.समूढस्य.अतिरिक्त.उक्थम्.उपयन्ति ।

27.5.7

तेन.ह.अतिरिक्त.उक्थम्.आप्नुवन्ति । (सोम: दशमम्.अहह्)

27.5.8

अथ.एष.दशमस्य.अह्नो.दोहः ।

27.5.9

यथा.सहस्रम्.च.पञ्चदश.च.अनुष्टुभः.स्युः । (सोम: दशमम्.अहह्)

27.5.10

तथा.एतद्.अहः.सम्पादयेत् ।

27.5.11

पञ्चदश.उद्धृत्य.शतस्य.शतस्य.चतस्रश्.चतस्र.उद्धरति । (सोम: दशमम्.अहह्)

27.5.12

ताश्.चत्वारिंशत् ।

27.5.13

पूर्वाः.पञ्चदश ।

27.5.14

ताः.पञ्च.पञ्चाशद्.उद्धृताः ।

27.5.15

अथ.इतरे.त्रिंशद्.द्वात्रिंशद्.वर्गाः ।

27.5.16

अथ.एषा.पद्या.अनुष्टुप् । (सोम: दशमम्.अहह्)

27.5.17

गायत्र्यै.च.उष्णिहश्.च.षट्.पदानि.विराजस्.त्रीणि.तानि.नव । (डशमम्.अहह्)

27.5.18

बृहत्यै.चत्वारि.तानि.त्रयोदश ।

27.5.19

पङ्क्तेः.पञ्च.तान्य्.अष्टादश । (सोम: दशमम्.अहह्)

27.5.20

त्रिष्टुभश्.चत्वारि.तानि.द्वाविंशतिः ।

27.5.21

जगत्यै.च.अतिच्छन्दसश्.च.अष्टौ.तानि.त्रिंशत् ।

27.5.22

द्विपदायै.द्वे.तानि.द्वात्रिंशत् ।

27.5.23

इत्य्.एषा.पद्य.अनुष्टुब्.एकत्रिंशी.भवति । (सोम: दशमम्.अहह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc