भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 27.4

27.4.1

कया.नश्.चित्र.आ.भुवत्.कया.त्वम्.न.ऊत्या.इति.वामदेव्यस्य.योनौ.रथन्तरम्.ऊढम्.भवत्य्.आग्नेयम्.साम.ऐद्रीषु ।

27.4.2

तन्.मिथुनम्.प्रजात्यै.रूपम् । (सोम: दशमम्.अहह्)

27.4.3

यावन्तः.प्रगाथास्.तावन्त्य्.औष्णिहानि.तृचानि ।

27.4.4

धाय्याम्.अन्या.द्विपदा.भजते ।

27.4.5

सप्तदशीम्.अन्या.सूक्तस्य ।

27.4.6

तत्.सम्पन्नम् ।

27.4.7

ऐकाहिकम्.निष्केवल्यम् । (सोम: दशमम्.अहह्)

27.4.8

प्रतिष्ठा.वा.एकाहः.प्रतिष्ठा.दशमम्.अहः ।

27.4.9

प्रतिष्ठानीयम्.वै.छन्दो.द्विपदे.प्रतिष्ठित्या.एव ।

27.4.10

अभि.त्यम्.देवम्.सवितारम्.ओण्योः.कवि.क्रतुम्.इत्य्.अतिच्छन्दसा.वैश्वदेवम्.प्रतिपद्यते । (सोम: दशमम्.अहह्)

27.4.11

सा.सम्पन्ना.चतुः.षष्ट्य्.अक्षरा ।

27.4.12

ते.द्वे.अनुष्टुभौ.सम्पदेते । (सोम: दशमम्.अहह्)

27.4.13

तत्.सम्पन्नम् ।

27.4.14

अभिवान्.अनुचरस्.तस्य.उक्तम्.ब्राह्मणम् ।

27.4.15

अथ.नित्यम्.एव.ऐकाहिकम्.तृतीय.सवनम् । (सोम: दशमम्.अहह्)

27.4.16

प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव ।

27.4.17

तत्र.पुरस्ताद्.आनोभद्रीयस्य.प्रशुक्रीयम्.शंसति । (सोम: दशमम्.अहह्)

27.4.18

प्रतिष्ठा.वा.एकाहः.प्रतिष्ठा.दशमम्.अहः ।

27.4.19

प्रतिष्ठानीयम्.वै.छन्दो.द्विपदाः.प्रतिष्ठित्या.एव । (सोम: दशमम्.अहह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc