कौषीतकिब्राह्मण · अध्याय 27.3
होता.प्रातर्.अनुवाके.सम्पादयेत् ।
न.आद्रियेत.अत्र.एव.सम्पन्नम् ।
उष्णिग्.उदैति.इति.मेनिमहे । (सोम: दशमम्.अहह्)
गायत्री.वा ।
ताम्.प्रातर्.अनुवाके.सम्पादयेत् ।
न.आद्रियेत.अत्र.वै.सम्पन्नम् ।
अग्ने.तम्.अद्य.अश्वम्.न.स्तोमैर्.इत्य्.आज्यम् । (सोम: दशमम्.अहह्)
तद्.एतत्.सृष्टम्.दशमाय.अह्ने.न.सम्पादयेत् ।
न.आद्रियेत.अत्र.एव.सम्पन्नम् । (सोम: दशमम्.अहह्)
माधुच्.छन्दसः.प्रौगस्.तस्य.उक्तम्.ब्राह्मणम् ।
त्रिकद्रुकेषु.महिषो.यवाशिरम्.तुविशुष्म.इत्य्.अतिच्छन्दसा.मरुत्वतीयम्.प्रतिपद्यते । (सोम: दशमम्.अहह्)
सा.सम्पन्ना.चतुः.षष्ट्य्.अक्षरा ।
ते.द्वे.अनुष्टुभौ.सम्पद्येते ।
तत्.सम्पन्नम् । (सोम: दशमम्.अहह्)
पिन्वन्त्य्.अपीयया.द्वौ.प्रगाथौ.संशंसति.बृहद्.इन्द्राय.गायत.प्र.व.इन्द्राय.बृहत.इति । (सोम: दशमम्.अहह्)
तत्.सम्पन्नम् ।
ऐकाहिकम्.मरुत्वतीयम् ।
प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । (सोम: दशमम्.अहह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0