कौषीतकिब्राह्मण · अध्याय 27.2
यदि.तथा.न.मन्येत ।
तम्.प्रत्य्.एव.विब्रूयात् ।
उत्सृज्यते.दशमे.अहन्य्.अनुष्टुप् ।
वाग्.अनुष्टुप् ।
सा.एषा.वाग्.व्रत.दोहुषी.क्रूर.वहा.इव.भवति । (सोम: दशमम्.अहह्)
तस्माद्.उत्सृज्यते ।
न.इद्.वाचम्.आसीदाम.इति ।
अथ.इतराणि.छन्दांस्य्.अनुष्टुभम्.अभिसम्पादयति । (सोम: दशमम्.अहह्)
तद्.एतन्न्.आह.एव.अभिमृशे.शूद्राम् ।
नो.एनाम्.प्रसिसृक्षामि ।
नो.त्व्.एव.अन्यत्र.यामक.पौंश्चल्वायनम्.मे.अस्ति.इति । (सोम: दशमम्.अहह्)
अनुष्टुब्ब्.ह्य्.एषा.दशमे.अहन्.परिगीता ।
तद्.आहुर्.न.अनुष्टुभ.आयतनम्.रिञ्च्यात् । (सोम: दशमम्.अहह्)
विराजस्.तत्र.अनुब्रूयात् ।
समानम्.वा.एतच्.छन्दो.यद्.विराट्.च.अनुष्टुप्.च । (सोम: दशमम्.अहह्)
न.ह्य्.एकेन.अक्षरेण.अन्यच्.छन्दो.भवति ।
नो.द्वाभ्याम्.इति ।
तयोर्.वा.एतयोस्.तृचयोः.षड्.अक्षराण्य्.अभ्युद्यन्ति । (सोम: दशमम्.अहह्)
अग्निम्.नरो.दीधितिभिर्.अरण्योर्.अग्निष्टोम.साम्नः.स्तोत्रिय.अनुरूपयोः.षट् ।
तानि.द्वादश.अक्षराणि । (सोम: दशमम्.अहह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0