भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 27.1

27.1.1

यद्.दिव्य्.उपरि.तद्.दशमम्.अहर्.इति.ह.स्म.आह.कौषीतकिः ।

27.1.2

तस्मात्.तद्.अविवाक्यम्.भवति ।

27.1.3

न.हि.तद्.अद्धा.वेद.कश्चन । (सोम: दशमम्.अहह्)

27.1.4

न.इद्.अविद्वान्.विब्रवाणि.इति ।

27.1.5

मितम्.एतद्.देव.कर्म.यद्.दशमम्.अहर्.अनुष्टुब्.एव । (सोम: दशमम्.अहह्)

27.1.6

स.यो.व्याह ।

27.1.7

सो.अतिरेचयति ।

27.1.8

ईश्वरो.विवक्तारम्.भ्रेषो.अव्नेतोः । (सोम: दशमम्.अहह्)

27.1.9

तद्.उ.वा.आहुर्.व्य्.एव.ब्रूयात् ।

27.1.10

नन्दति.ह.वै.यज्ञो.विदुषा.आगच्छता । (सोम: दशमम्.अहह्)

27.1.11

यन्.मे.असमृद्धम्.भविष्यत्य्.अयम्.मे.तत्.समर्धयिष्यति.इति । (सोम: दशमम्.अहह्)

27.1.12

यदि.कश्चित्.प्रमत्त.उपहन्यात् ।

27.1.13

यस्.तद्.अधीयात् ।

27.1.14

यस्.तम्.तत्र.ब्रूयात् । (सोम: दशमम्.अहह्)

27.1.15

स.तम्.देशम्.पार्श्वतः.स्वाध्यायम्.अधीयीत ।

27.1.16

अपि.वा.गृहपतिर्.वा.ऋत्विजाम्.वा.एकः.पर्यवसर्पेत् ।

27.1.17

स.तम्.देशम्.पार्श्वतः.स्वाध्यायम्.शंसेत् । (सोम: दशमम्.अहह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc