भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 27.11

27.11.1

ते.न्व्.आ.उ.वयम्.उत्तरेण.एव.हविर्.धाने.परीम.इति.ह.स्म.आह.कौषीतकिः ।

27.11.2

यज्ञस्य.अनुसंचरम्.सप्तऋषिभ्यो.अनन्तर्हिता.इति ।

27.11.3

ते.अग्रेण.हविर्.धाने.समुपविश्य.काम.ध्यायन्ति.यम्.यम्.इच्छन्ति ।

27.11.4

स.उ.ह.एभ्यः.कामः.समृध्यते । (सोम: दशमम्.अहह्)

27.11.5

अथ.य.उ.बहु.कामा.भवन्ति ।

27.11.6

भूर्.भुवः.स्वर्.इत्य्.एतास्.ते.व्याहृतीर्.जपन्ति ।

27.11.7

ते.पाअञ्च.उदञ्च.उत्क्रम्य.वाचम्.निह्वयन्ते । (सोम: दशमम्.अहह्)

27.11.8

न.इद्.वाक्.पराच्य्.असद्.इति ।

27.11.9

वाचम्.एव.तद्.आत्मन्.दधते ।

27.11.10

सुब्रह्मण्यया.वाचम्.विसृज्ञन्ते । (सोम: दशमम्.अहह्)

27.11.11

ब्रह्म.वै.सुब्रह्मण्या ।

27.11.12

ब्रह्मणा.एव.तद्.वाचम्.विसृजन्ते । (सोम: दशमम्.अहह्)

27.11.13

त.आग्नीध्रे.सह.राजा.संविशन्ते ।

27.11.14

तद्.यथा.राजानम्.वा.राज.मात्रम्.वा.श्रान्तम्.वेश्म.प्रपाद्येयुः । (सोम: दशमम्.अहह्)

27.11.15

एवम्.एव.एतत्.सोमम्.राजानम्.अहर्.अहर्.हविर्.धानाभ्याम्.उपावहृत्य.अग्नीध्रम्..प्रपादयन्ति । (सोम: दशमम्.अहह्)

27.11.16

त.आग्नीध्रे.सह.राजा.संविशन्ते ।

27.11.17

अथ.यत्.समूढम्.दशरात्रम्.उपयन्ति । (सोम: दशमम्.अहह्)

27.11.18

सर्वेआम्.एव.कामानाम्.आप्त्यै ।

27.11.19

अथ.यद्.व्यूढम्.उपयन्ति ।

27.11.20

सर्वेषाम्.एव.छन्दसाम्.आप्त्यै । (सोम: दशमम्.अहह्)

27.11.21

अथ.यद्.व्यूढ.समूढा.उपयन्ति ।

27.11.22

दशरात्रस्य.एव.नानात्वम् ।

27.11.23

समूढ.उ.ह.एव.अग्र.आस । (सोम: दशमम्.अहह्)

27.11.24

तानि.छन्दांस्य्.अन्योन्यस्य.स्थानम्.अभिदध्युः ।

27.11.25

सर्वाणि.प्रथमाणि.स्याम.सर्वाणि.मध्यमानि.सर्वाण्य्.उत्तमानि.इति । (सोम: दशमम्.अहह्)

27.11.26

अथो.सर्वाण्य्.एव.एतच्.छन्दांसि.सर्व.सवन.भाञ्जि.कुर्वन्ति । (सोम: दशमम्.अहह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc