कौषीतकिब्राह्मण · अध्याय 26.14
अभि.त्वा.देव.सवितर्.इति.सावित्रम् ।
अभि.इत्य्.असौ.लोकः ।
तद्.अमुष्य.लोकस्य.रूपम् ।
प्र.वाम्.महि.द्यवी.अभि.इति.द्यावा.पृथिवीयम् ।
महि.द्यव्यी.अभि.इति.तद्.अमुष्य.लोकस्य.रूपम् । (सोम: छन्दोमाह्)
इन्द्र.इषे.ददातु.न.इत्य्.एका.ते.नो.रत्नानि.धत्तन.इति.द्वे.तत्.तृचम्.आर्भवम् । (सोम: छन्दोमाह्)
एकम्.एकम्.सुशस्तिभिर्.इत्य्.एकम्.एकम्.इति.निनर्तिः ।
अन्तो.नवमम्.अहः ।
नीव.वा.अन्तम्.गत्वा.नृत्यति । (सोम: छन्दोमाह्)
कद्र्यन्.हि.तत.इयात् ।
अथ.वैश्वदेवम्.मनुः ।
सर्व.आयुर्.वै.मनुः ।
आयुर्.एव.तद्.यज्ञे.च.यजमानेषु.च.दधाति । (सोम: छन्दोमाह्)
विश्वे.देवास.आ.गत.इति.वैश्वदेवम्.भारद्वाजम् ।
आ.गत.इति.गतवत् । (सोम: छन्दोमाह्)
तद्.अन्त.रूपम् ।
अन्तो.नवमम्.अहः ।
ऐति.इव.वा.अन्तम्.गत्वा ।
कद्र्यन्.हि.तत.इयात् ।
गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः । (सोम: छन्दोमाह्)
दिवि.पृष्टो.अरोचत.इति.वैश्वानरीयम् ।
दिवि.इति.तद्.अमुष्य.लोकस्य.रूपम् ।
मरुतो.यस्य.हि.क्षय.इति.मारुतम् । (सोम: छन्दोमाह्)
क्षय.इति.क्षितिवत् ।
तद्.अन्त.रूपम् ।
अन्तो.नवमम्.अहः ।
क्षियति.इव.वा.अन्तम्.गत्वा ।
कद्र्यन्.हि.तत.इयात् । (सोम: छन्दोमाह्)
अग्निर्.होता.पुरोहित.इति.जात.वेदसीयम् ।
क्षयम्.पावक.शोचिष.इति.क्षयम्.इति.क्षितिवत् । (सोम: छन्दोमाह्)
तद्.अन्त.रूपम् ।
अन्तो.नवमम्.अहः ।
क्षियति.इव.वा.अन्तम्.गत्वा ।
कद्र्यन्.हि.तत.इयात् ।
गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः ।
इत्य्.आग्निमारुत.सूक्तानि ।
इत्य्.एतस्य.अह्नः.सूक्तानि ।
तद्.उक्थ्यम्.संतिष्ठते । (सोम: छन्दोमाह्)
तस्य.सा.आप्तिर्.या.तृतीयस्य.अह्नः ।
अन्व्.अहम्.द्विपदाः.शस्यन्ते । (सोम: छन्दोमाह्)
पशवो.वै.छन्दोमाः ।
यजमानच्.छन्दसम्.द्विपदाः ।
अधिष्टायाम्.एव.तत्.पशूनाम्.यजमानान्.दधाति । (सोम: छन्दोमाह्)
अधी.इव.वै.पशून्.पुरुषस्.तिष्ठत्य्.अधि.इव.वै.पशून्.पुरुषस्.तिष्ठति । (सोम: छन्दोमाह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0