भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 26.9

26.9.1

हिरण्य.पाणिम्.ऊतय.इति.सावित्रम् ।

26.9.2

अपाम्.नपातम्.अवस.इति.महद्वत्.सद्.अभ्यारब्धवत् ।

26.9.3

मही.द्यौः.पृथिवी.च.न.इति.द्यावा.पृथिवीयम्.महद्वत् । (सोम: छन्दोमाह्)

26.9.4

महद्वद्द्.ह्य्.एतद्.अहः ।

26.9.5

युवाना.पितरा.पुनर्.इत्य्.आर्भवम् ।

26.9.6

इन्द्रेण.च.मरुत्वताद्.इत्य्.एभिश्.च.राजभिर्.इत्य्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.9.7

देवानाम्.इद्.अवो.महद्.इति.वैश्वदेवम् ।

26.9.8

वामम्.नो.अस्त्व्.अर्यमन्.वामम्.वरुण.शंस्यम्.इति.महद्वत्.सद्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.9.9

इमा.नु.कम्.भुवना.सीषधाम.इति.द्विपदाः ।

26.9.10

इन्द्रश्.च.विश्वे.च.देवा.इत्य्.अभ्यारब्धवत् ।

26.9.11

विश्वे.देवा.ऋता.वृध.इति.वैश्वदेवम्.वृद्धवत् ।

26.9.12

महद्द्.ह्य्.एतद्.अहः । (सोम: छन्दोमाह्)

26.9.13

गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः ।

26.9.14

वैश्वानरो.अजीजनद्.इति.वैश्वानरीयम् ।

26.9.15

क्ष्मया.वृधान.ओजसा.इति.वृद्धवत् ।

26.9.16

महद्वत्.सद्.अभ्यारब्धवत् ।

26.9.17

कद्द्.ह.नूनम्.कध.प्रिय.इति.मारुतम्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.9.18

दूतम्.वो.विश्व.वेदसम्.इति.जात.वेदसीयम् ।

26.9.19

अग्ने.मृड.महान्.असि.इति.वा ।

26.9.20

अष्टर्चम्.अष्टमस्य.अह्नः । (सोम: छन्दोमाह्)

26.9.21

पूर्वम्.तु.स्थितम् ।

26.9.22

महान्.आरोधनम्.दिव.इति.महद्वत्.सद्.अभ्यारब्धवत् ।

26.9.21

पूर्वम्.तु.स्थितम् ।

26.9.22

महान्.आरोधनम्.दिव.इति.महद्वत्.सद्.अभ्यारब्धवत् ।

26.9.23

गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः । (सोम: छन्दोमाह्)

26.9.24

इत्य्.आग्नि.मारुत.सूक्तानि ।

26.9.25

इत्य्.एतस्य.अह्नः.सूक्तानि ।

26.9.26

तद्.उक्थ्यम्.संतिष्ठते ।

26.9.27

तस्य.सा.आप्तिर्.या.द्वितीयस्य.अह्नः । (सोम: छन्दोमाह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc