भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 26.8

26.8.1

महान्.इन्द्रो.नृवदा.चर्षणिप्रा.इति.त्रैष्टुभानाम्.प्रथमम्.मरुत्वतीयानाम् ।

26.8.2

महद्वत्.सद्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.8.3

इमा.उ.त्वा.पुरुतमस्य.कारोर्.इति.द्वितीयम् ।

26.8.4

हव्यम्.वीर.हव्या.हवन्त.इत्य्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.8.5

क्व.स्य.वीरः.को.अपश्यद्.इन्द्रम्.इति.तृतीयम् ।

26.8.6

सुख.रथम्.ईयमानम्.हरिभ्याम्.इत्य्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.8.7

महश्चित्.त्वम्.इन्द्र.यत.एतान्.इति.चतुर्थम् ।

26.8.8

महश्चिद्.असि.त्यजसो.वरूत.इति.महद्वद्.सद्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.8.9

तम्.अस्य.द्यावा.पृथिवी.सचेतसा.इति.पञ्चमम् ।

26.8.10

यदा.एतत्.कृण्वानो.महिमानम्.इन्द्रियम्.इति.महद्वत्.सद्.अभ्यारब्धवत् ।

26.8.11

त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम: छन्दोमाह्)

26.8.12

त्वम्.महान्.इन्द्र.तुभ्यम्.ह.क्षा.इति.त्रैष्टुभानाम्.प्रथमम्.निष्केवल्यानाम् । (सोम: छन्दोमाह्)

26.8.13

महद्वत्.सद्.अभ्यारब्धवत् ।

26.8.14

त्वम्.महान्.इन्द्र.यो.ह.शुष्मैर्.इति.द्वितीयम्.महद्वत् । (सोम: छन्दोमाह्)

26.8.15

महद्वद्द्.ह्य्.एतद्.अहः ।

26.8.16

अपूर्व्या.पुरुतमान्य्.अस्मा.इति.तृतीयम् ।

26.8.17

महे.वीराय.तवसे.तुराय.इति.महद्वत्.सद्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.8.18

ताम्.सु.ते.कीर्तिम्.मघवन्.महित्वा.इति.चतुर्थम् ।

26.8.19

महद्वत्.सद्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.8.20

इमाम्.ते.धियम्.प्र.भरे.महो.महीम्.इति.पञ्चमम् ।

26.8.21

महद्वद्.सद्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.8.22

त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः ।

26.8.23

पञ्च.पञ्च.सूक्तानि.निष्केवल्य.मरुत्वतीययोः.शस्यन्ते.मध्यमे.छन्दोमे । (सोम: छन्दोमाह्)

26.8.24

पशवो.वै.छन्दोमाः ।

26.8.25

पाङ्क्ताः.पशवः ।

26.8.26

पशूनाम्.एव.आप्त्यै ।

26.8.27

तानि.दश.सम्पद्यन्ते । (सोम: छन्दोमाह्)

26.8.28

दश.दशिनी.विराट् ।

26.8.29

श्रीर्.विराड्.अन्न.अद्यम् ।

26.8.30

श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । (सोम: छन्दोमाह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc