कौषीतकिब्राह्मण · अध्याय 26.10
अन्तो.गतिर्.नवमम्.अहः ।
असौ.द्यौर्.असौ.लोकः ।
तस्माद्.गतवन्ति.नवमे.अहन्त्.सूक्तानि.शस्यन्ते ।
अगन्म.महा.नमसा.यविष्ठम्.सोमस्य.मा.तवसम्.वक्ष्य्.अग्न.इत्य्.एते.उभे.तद्.आज्यम् । (सोम: छन्दोमाह्)
अगम्न.इति.गतवत् ।
तद्.अन्त.रूपम् ।
अन्तो.नवमम्.अहः ।
एति.इव.वा.गन्तम्.गत्वा ।
कद्र्यन्.हि.तत.इयात् । (सोम: छन्दोमाह्)
अस्थुर्.अत्र.धेनवः.पिन्वमाना.इति.स्थितवत् ।
तद्.अन्त.रूपम् ।
अन्तो.नवमम्.अहः । (सोम: छन्दोमाह्)
तिष्ठति.इव.वा.अन्तम्.गत्वा ।
कद्र्यन्.हि.तत.इयात् ।
अगन्म.महा.नमसा.यविष्ठम्.इत्य्.एतद्.एव.तृचम्.आज्यम्.स्याद्.इति.ह.स्म.आह.पैङ्ग्यः । (सोम: छन्दोमाह्)
अगन्म.इति.गतवत् ।
तद्.अन्त.रूपम् ।
अन्तो.नवमम्.अहः ।
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0