भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 26.7

26.7.1

अन्तरिक्ष.लोको.द्वितीयः ।

26.7.2

असौ.लोकः.उत्तमः ।

26.7.3

तस्मान्.महद्वन्ति.मध्यमे.अहन्त्.सूक्तानि.शस्यन्ते ।

26.7.4

महद्द्.हि.इदम्.अन्तरिक्षम् । (सोम: छन्दोमाह्)

26.7.5

अथो.अभ्यारब्धवन्ति.स्युः ।

26.7.6

परम्.एव.एतद्.अहर्.अभिवदति ।

26.7.7

परम्.एव.एतद्.अहर्.अभ्यारभ्य.वसन्ति.इति.ह.स्म.आह.कौषीतकिः । (सोम: छन्दोमाह्)

26.7.8

अग्निः.वो.देवम्.अग्निभिः.सजोषा.इत्य्.आज्यम् ।

26.7.9

यदा.महः.संवरणाद्.व्यस्थाद्.इति.महद्वत्.सद्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.7.10

त्रैष्टुभः.प्रौगः ।

26.7.11

कुविद्.अङ्ग.नमसा.ये.वृधास.इति.वायव्यम्.वृद्धवत् । (सोम: छन्दोमाह्)

26.7.12

महद्वद्द्.ह्य्.एतद्.अहः ।

26.7.13

अत.एव.उत्तरम्.तृचम्.ऐन्द्र.वायवम्.यावत्.तरस्.तन्वो.यावद्.ओज.इति । (सोम: छन्दोमाह्)

26.7.14

यावन्.नरश्.चक्षसा.दीध्याना.इत्य्.अभ्यारब्धवत् ।

26.7.15

प्रति.वाम्.सूर.उदिते.सूक्तैर्.इति.मैत्रावरुणम् । (सोम: छन्दोमाह्)

26.7.16

मित्रम्.हुवे.वरुणम्.पूत.दक्षम्.इत्य्.अभ्यारब्धवत् ।

26.7.17

अप.स्वसुर्.उषसो.नग्.जिहीत.इत्य्.आश्विनम् । (सोम: छन्दोमाह्)

26.7.18

अश्वा.मघा.गो.मघा.वाम्.हुवेम.इत्य्.अभ्यारब्धवत् ।

26.7.19

अयम्.सोम.इन्द्र.तुभ्यम्.सुन्व.इत्य्.ऐन्द्रम् । (सोम: छन्दोमाह्)

26.7.20

ब्रह्मन्.वीर.ब्रह्म.कृतिम्.जुषाण.इत्य्.अभ्यारब्धवत् ।

26.7.21

प्र.ब्रह्माणो.अङ्गिरसो.नक्षन्त.इति.वैश्वदेवम् ।

26.7.22

प्र.क्रन्दनुर्.नभन्यस्य.वेत्व्.इत्य्.अभ्यारब्धवत् । (सोम: छन्दोमाह्)

26.7.23

उत.स्या.नः.सरस्वती.जुषाण.इति.सारस्वतम् ।

26.7.24

वर्ध.शुभ्रे.स्तुवते.रासि.वाजान्.इति.वृद्धवत् । (सोम: छन्दोमाह्)

26.7.25

महद्वद्द्.ह्य्.एतद्.अहः ।

26.7.26

राथन्तरम्.पृष्ठम्.बार्हतम्.शस्त्रम् ।

26.7.27

तन्.मिथुनम्.प्र्जात्यै.रूपम् । (सोम: छन्दोमाह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc