भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 26.6

26.6.1

तत्.सवितुर्.वरेण्यम्.इति.सावित्रम् ।

26.6.2

धियो.यो.नः.प्रचोदयाद्.इति.प्रवत् ।

26.6.3

प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: छन्दोमाह्)

26.6.4

प्रेताम्.यज्ञस्य.शम्भुवा.इति.द्यावा.पृथिवीयम्.प्रवत् ।

26.6.5

प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: छन्दोमाह्)

26.6.6

अयम्.देवाय.जन्मन.इत्य्.आर्भवम् ।

26.6.7

स्तोमो.विप्रेभिर्.आसय.इत्य्.आवत् । (सोम: छन्दोमाह्)

26.6.8

आवद्.वै.प्रथमस्य.अह्नो.रूपम् ।

26.6.9

ऋजु.नीती.नो.वरुण.इति.वैश्वदेवम्.नीतवत् ।

26.6.10

नीतवद्.वै.सप्तमस्य.अह्नो.रूपम् । (सोम: छन्दोमाह्)

26.6.11

आ.अयाहि.वनसा.सह.इति.द्विपदा.आवत् ।

26.6.12

आवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: छन्दोमाह्)

26.6.13

ओमासश्.चर्षणी.धृत.इति.वैश्वदेवम् ।

26.6.14

विश्वे.देवास.आ.गत.इत्य्.आवत् । (सोम: छन्दोमाह्)

26.6.15

आवद्.वै.प्रथमस्य.अह्नो.रूपम् ।

26.6.16

गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः ।

26.6.17

वैश्वानरो.न.ऊतय.इति.वैश्वानरीयम् । (सोम: छन्दोमाह्)

26.6.18

आ.प्र.यातु.परावत.इत्य्.आवत् ।

26.6.19

आवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: छन्दोमाह्)

26.6.20

प्र.यद्.वस्.त्रिष्टुभम्.इषम्.इति.मारुतम्.प्रवत् ।

26.6.21

प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् ।

26.6.22

अर्चन्तस्.त्वा.हवामह.इति.जातवेदसीयम् । (सोम: छन्दोमाह्)

26.6.23

त्वया.यज्ञम्.वि.तन्वत.इति.ततवत् ।

26.6.24

ततवद्.वै.सप्तमस्य.अह्नो.रूपम् ।

26.6.25

गायत्रम्.गायत्र.तृतीय.सवनो.ह्य्.एष.त्र्यहः । (सोम: छन्दोमाह्)

26.6.26

इत्य्.आग्निमारुत.सूक्तानि ।

26.6.27

इत्य्.एतस्य.अह्नः.सूक्तानि ।

26.6.28

तद्.उक्थ्यम्.संतिष्ठते । (सोम: छन्दोमाह्)

26.6.29

तस्य.साप्तिर्.या.प्रथमस्य.अह्नः ।

26.6.30

अयम्.वै.लोकः.प्रथमश्.छन्दोमः । (सोम: छन्दोमाह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc