कौषीतकिब्राह्मण · अध्याय 26.5
कय.शुभा.सवयसः.सनीडा.इति.मरुत्वतीयम् ।
तद्.एतत्.संज्ञा.श्रीः.सूक्तम् ।
एतेन.ह.वा.इन्द्रश्.च.मरुतश्.च.समजानत । (सोम: छन्दोमाह्)
अभिसंजानते.ह.वा.अस्मै.स्वा.श्रैष्ठ्याय.य.एवम्.वेद ।
कया.मती.कुत.एतास.एत.इत्य्.आवद्.राथन्तरम् । (सोम: छन्दोमाह्)
त्यम्.सु.मेषम्.महया.स्वर्विदम्.इति.जागतम् ।
ऐन्द्रम्.ववृत्याम्.अवसे.सुवृक्तिभिर्.इत्य्.आवद्.राथन्तरम् । (सोम: छन्दोमाह्)
त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः ।
तद्.आहुर्.यद्.रथन्तरम्.पृष्ठम्.सप्तमस्य.अह्न.आयतनेन.अथ.कस्माद्.अन्वहम्.बृहत्.क्रियत.इति । (सोम: छन्दोमाह्)
तानि.वा.एतान्य्.अहानि.महा.स्तोमानि.भवन्ति ।
तस्माद्.अन्वहम्.बृहत्.क्रियते ।
एतेषाम्.एव.अह्नाम्.सबलतायै । (सोम: छन्दोमाह्)
एतेषाम्.छन्दोमानाम्.असमवप्लुताया.इति ।
बृहत.आतानम्.शस्त्वा.रथन्तरस्य.योनिम्.शंसति । (सोम: छन्दोमाह्)
न.आह.एव.नः.पिता.यो.अन्य.वादम्.सा.एव.आसीद्.इति.ह.स्म.आह.कौषीतकिः । (सोम: छन्दोमाह्)
यत्र.तु.क्वच.एते.सामनी.समाने.अहन्त्.सम्निपतेताम् ।
अन्व्.एव.तत्र.इतरस्य.इतरस्य.वा.योनिम्.अनुशंसेत् ।
यद्य्.उ.कण्व.रथन्तरम्.कुर्युः ।
न.अस्य.योनिम्.अनुशंसेत् । (सोम: छन्दोमाह्)
न.ह्य्.अन्येषाम्.पृष्ठानाम्.योनिः.शस्या.भवति.इति ।
तम्.उ.ष्टुहि.यो.अभिभूत्य्.ओजा.त्यम्.मेषम्.पुरु.हूतम्.ऋग्मियम्.इत्य्.उभे.अभिवती । (सोम: छन्दोमाह्)
तद्.राथन्तरम्.रूपम् ।
त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम: छन्दोमाह्)
द्वे.द्वे.सूक्ते.निष्केवल्य.मरुत्वतीययोः.शस्येते.प्रथमे.छन्दोमे । (सोम: छन्दोमाह्)
द्विपाद्.यजमानः ।
प्रतिष्ठित्यै ।
तानि.चत्वारि.सम्पद्यन्ते ।
पशवो.वै.छन्दोमाः ।
चतुष्टया.वै.पशवः ।
अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । (सोम: छन्दोमाह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0