कौषीतकिब्राह्मण · अध्याय 26.4
प्र.वः.शक्राय.भावने.भरध्वम्.इत्य्.आज्य.प्रवत् ।
प्रवद्.वै.प्रथमस्य.अह्नो.रूपम् ।
त्रैष्टुभः.प्रौगः । (सोम: छन्दोमाह्)
प्र.वीरया.शुचयो.दद्रिरे.वाम्.इति.वायव्यम्.प्रवत् ।
प्रवद्.वै.प्र्थमस्य.अह्नो.रूपम् । (सोम: छन्दोमाह्)
अत.एव.उत्तरम्.तृचम्.ऐन्द्रावायवम्.ते.सत्येन.मनसा.दीध्याना.इति । (सोम: छन्दोमाह्)
स्वेन.युक्तासः.क्रतुना.वहन्ति.इति.युक्तवत् ।
युक्तवद्.वै.प्रथमस्य.अह्नो.रूपम् । (सोम: छन्दोमाह्)
उद्.वाम्.चक्षुर्.वरुण.सुप्रतीकम्.इति.मैत्रावरुणम् ।
देवयोर्.एति.सूर्यस्.ततन्वान्.इति.ततवत् ।
ततवद्.वै.सप्तमस्य.अह्नो.रूपम् । (सोम: छन्दोमाह्)
आ.गोमता.नासत्या.रथेन.आ.नो.देव.शवसा.याहि.शुष्णिन्.प्र.वो.यज्ञेषु.देवयन्तो.अर्चन्प्र.क्षोदसा.धायसा.सस्र.एष.इति । (सोम: छन्दोमाह्)
एहि.वा.वै.प्र.इति.वा.प्रायणीय.रूपम् । (सोम: छन्दोमाह्)
तस्माद्.आवन्ति.च.प्रवन्ति.च.सप्तमे.अहन्त्.सूक्तानि.शस्यन्ते.प्रायणीय.रूपेण ।
पुनः.प्रायणीयम्.हि.सप्तमम्.अहः । (सोम: छन्दोमाह्)
तद्.आहुर्.यत्.किंच.छन्दः.प्रातः.सवने.युज्येत.अर्धर्चश.एव.तस्य.शस्त्रम्.इति.गायत्र्यै.रूपेण.अथो.प्रातः.सवन.रूपेण.इति । (सोम: छन्दोमाह्)
तद्.उ.ह.स्म.आह.कौषीतकिः ।
न.त्रिष्टुब्.जगत्याव्.एतत्.स्थाने.अर्धर्चशः.शस्त्राय ।
यद्य्.अपि.प्रातः.सवने.युज्येताम् । (सोम: छन्दोमाह्)
पच्छ.एव.एनयोः.शस्त्रम्.इति.सा.स्थितिः ।
बृहत्.पृष्ठम्.राथन्तरम्.शस्त्रम् ।
तन्.मिथुनम्.प्रजात्यै.रूपम् । (सोम: छन्दोमाह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0