भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 26.13

26.13.1

त्र्य्.अर्यमा.मनुषो.देव.ताता.इति.त्रैष्टुभानाम्.प्रथमम्.मरुत्वतीयानाम् ।

26.13.2

त्रि.इति.तत्.तृतीयस्य.अह्नो.रूपम् ।

26.13.3

इन्द्रो.रथाय.प्रवतम्.कृणोति.इति.द्वितीयम् । (सोम: छन्दोमाह्)

26.13.4

यम्.अध्यस्थान्.मघवा.वाजयन्तम्.इत्य्.अध्यस्थाद्.इति.स्थितवत् ।

26.13.5

तद्.अन्त.रूपम् ।

26.13.6

अन्तो.नवमम्.अहः । (सोम: छन्दोमाह्)

26.13.7

तिष्ठति.इव.वा.अन्तम्.गत्वा ।

26.13.8

कद्र्यन्.हि.तत.इयात् ।

26.13.9

तिष्ठा.हरी.रथ.आ.युज्यमाना.इति.तृतीयम् ।

26.13.10

तिष्ठ.इति.स्थितवत् । (सोम: छन्दोमाह्)

26.13.11

तद्.अन्त.रूपम् ।

26.13.12

अन्तो.नवमम्.अहः ।

26.13.13

तिष्ठति.इव.वा.अन्तम्.गत्वा ।

26.13.14

कद्र्यन्.हि.तत.इयात् । (सोम: छन्दोमाह्)

26.13.15

गायत्.साम.नभन्यम्.यथा.वेर्.इति.चतुर्थम् ।

26.13.16

साम.इति.तद्.अमुष्य.लोकस्य.रूपम् । (सोम: छन्दोमाह्)

26.13.17

प्र.मन्दिने.पितुमदर्चता.वच.इति.पञ्चमम्.(.पितुमद्.अर्चता.?) ।

26.13.18

तस्य.तद्.एव.अन्त.रूपम्.यत्.सोदर्कम् ।

26.13.19

त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम: छन्दोमाह्)

26.13.20

आ.सत्यो.यातु.मघवान्.ऋजीषी.इति.त्रैष्टुभानाम्.प्रथमम्.निष्केवल्यानाम् । (सोम: छन्दोमाह्)

26.13.21

अव.स्य.शूर.अध्वनो.न.अन्त.इति ।

26.13.22

तद्.अन्त.रूपम् ।

26.13.23

अन्तो.नवमम्.अहः ।

26.13.24

अवस्यति.इव.वा.अन्तम्.गत्वा ।

26.13.25

कद्र्यन्.हि.तत.इयात् । (सोम: छन्दोमाह्)

26.13.26

अस्मा.इद्.उ.प्र.तवसे.तुराय.इति.द्वितीयम् ।

26.13.27

अस्मा.अस्मा.इति.सप्रभृति ।

26.13.28

यथा.वै.सोदर्कम्.एवम्.सप्रभृत्य्.अन्त.रूपम् । (सोम: छन्दोमाह्)

26.13.29

द्यौर्.न.य.इन्द्र.अभि.भूमार्य.इति.तृतीयम् ।

26.13.30

द्यौर्.इति.तद्.अमुष्य.लोकस्य.रूपम् । (सोम: छन्दोमाह्)

26.13.31

तत्.त.इन्द्रियम्.परमम्.पराचैर्.इति.चतुर्थम् ।

26.13.32

पराम्.पराचैर्.इति.निनर्तिः । (सोम: छन्दोमाह्)

26.13.33

अन्तो.नवमम्.अहः ।

26.13.34

नीव.वा.अन्तम्.गत्वा.नृत्यति ।

26.13.35

कद्र्यन्.हि.तत.इयात् । (सोम: छन्दोमाह्)

26.13.36

अहम्.भुवम्.वसुनः.प्र्रुव्यस्.पतिर्.विश्वजिते.धन.जिते.स्वर्.जित.इति.द्वे ।

26.13.37

अहम्.अहम्.इति.सप्र्भृति ।

26.13.38

यथा.वै.सोदर्कम्.एवम्.सप्रभृत्य्.अन्त.रूपम् । (सोम: छन्दोमाह्)

26.13.39

जिते.जित.इति.निनर्तिः ।

26.13.40

अन्तो.नवमम्.अहः ।

26.13.41

नीव.वा.अन्तम्.गत्वा.नृत्यति ।

26.13.42

कद्र्यन्.हि.तत.इयात् । (सोम: छन्दोमाह्)

26.13.43

त्रैष्टुभ.जागते.जागतम्.जगन्.मध्यंदिनो.ह्य्.एष.त्र्यहः ।

26.13.44

पञ्च.सूक्तानि.मरुत्वतीये.शस्यन्ते.उत्तमे.छन्दोमे । (सोम: छन्दोमाह्)

26.13.45

पशवो.वै.छन्दोमाः ।

26.13.46

पाङ्क्ताः.पशवः ।

26.13.47

पशूनाम्.एव.आप्त्यै ।

26.13.48

षड्.अन्ततो.निष्केवल्ये । (सोम: छन्दोमाह्)

26.13.49

षड्.वा.ऋतवः.संवत्सरः ।

26.13.50

संवत्सरस्य.एव.आप्त्यै ।

26.13.51

तान्य्.एकादश.सम्पद्यन्ते ।

26.13.52

एकादश.अक्षरा.त्रिष्टुप् ।

26.13.53

त्रैष्टुभाः.पशवः.पशूनाम्.एव.आप्त्यै । (सोम: छन्दोमाह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc