भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 26.12

26.12.1

आ.वायो.भूष.शुचिपा.उप.न.इति.वायव्यम्.च.ऐन्द्रावायवम्.च ।

26.12.2

आगत.इति.गतवत् । (सोम: छन्दोमाह्)

26.12.3

तद्.अन्त.रूपम् ।

26.12.4

अन्तो.नवमम्.अहः ।

26.12.5

ऐति.इव.वा.अन्तम्.गत्वा । (सोम: छन्दोमाह्)

26.12.6

कद्र्यन्.हि.तत.इयात् ।

26.12.7

प्र.सोता.जीरो.अध्वरेष्व्.अस्थाद्.इति.स्थितवत् ।

26.12.8

तद्.अन्त.रूपम् । (सोम: छन्दोमाह्)

26.12.9

अन्तो.नवमम्.अहः ।

26.12.10

तिष्ठति.इव.वा.अन्तम्.गत्वा ।

26.12.11

कद्र्यन्.हि.तत.इयात् ।

26.12.12

दिवि.क्षयन्ता.रजसः.पृथिव्याम्.इति.मैत्रावरुणम् । (सोम: छन्दोमाह्)

26.12.13

क्षयन्त.इति.क्षितिवत् ।

26.12.14

तद्.अन्त.रूपम् ।

26.12.15

अन्तो.नवमम्.अहः ।

26.12.16

क्षियति.इव.वा.अन्तम्.गत्वा । (सोम: छन्दोमाह्)

26.12.17

कद्र्यन्.हि.तत.इयात् ।

26.12.18

आ.विश्व.वारा.अश्विना.गतम्.न.इत्य्.आश्विनम् । (सोम: छन्दोमाह्)

26.12.19

प्र.तत्.स्थानम्.अवाचि.वाम्.पृथिव्याम्.इति.स्थितवत् ।

26.12.20

तद्.अन्त.रूपम् ।

26.12.21

अन्तो.नवमम्.अहः ।

26.12.22

तिष्ठति.इव.वा.अन्तम्.गत्वा । (सोम: छन्दोमाह्)

26.12.23

कद्र्यन्.हि.तत.इयात् ।

26.12.24

इन्द्रम्.नरो.नेमधिता.हवन्त.इत्य्.ऐन्द्रम् ।

26.12.25

यत्.पार्या.युनजते.धियस्.ता.इति.पार्याः.पर.अर्ध्याः । (सोम: छन्दोमाह्)

26.12.26

तद्.अन्त.रूपम् ।

26.12.27

अन्तो.नवमम्.अहः ।

26.12.28

अन्ते.अन्तम्.दधाति ।

26.12.29

ऊर्ध्वो.अग्निः.सुमतिम्.वस्वो.अश्रेद्.इति.वैश्वदेवम् ।

26.12.30

अश्रेद्.इति.श्रितवत् । (सोम: छन्दोमाह्)

26.12.31

तद्.अन्त.रूपम् ।

26.12.32

अन्तो.नवमम्.अहः ।

26.12.33

श्रियति.इव.वा.अन्तम्.गत्वा ।

26.12.34

कद्र्यन्.हि.तत.इयात् । (सोम: छन्दोमाह्)

26.12.35

प्र.क्षोदसा.धायसा.सस्र.एष.इति.सारस्वतम् ।

26.12.36

प्रबाबधान.इति.निनर्तिः । (सोम: छन्दोमाह्)

26.12.37

अन्तो.नवमम्.अहः ।

26.12.38

नीव.वा.अन्तम्.गत्वा.नृत्यति ।

26.12.39

कद्र्यन्.हि.तत.इयात् । (सोम: छन्दोमाह्)

26.12.40

एते.वा.उ.वासिष्ठास्.तृच.ऋक्ल्प्तास्.त्रैष्टुभाः.प्रौगाः ।

26.12.41

प्रजापतिर्.वै.वसिष्ठः । (सोम: छन्दोमाह्)

26.12.42

स.तन्ता.यज्ञस्य ।

26.12.43

स.पुनस्.तताव्.अयात.यामा.भवति । (सोम: छन्दोमाह्)

26.12.44

प्रजापताव्.एव.तत्.सर्वान्.कामान्.ऋध्नुवन्ति ।

26.12.45

बृहत्.पृष्ठम्.शस्त्रम् ।

26.12.46

तन्.मिथुनम्.प्रजात्यै.रूपम् । (सोम: छन्दोमाह्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc