कौषीतकिब्राह्मण · अध्याय 26.11
ऐति.(.एति.आ.इति.?).इव.वीत.इति.ह.स्म.ह.कौषीतकिः । (सोम: छन्दोमाह्)
सोमस्य.मा.तवसम्.वक्ष्य्.अग्न.इत्य्.एतद्.उपसंशंसेत् ।
तस्य.तद्.एव.अन्त.रूपम्.यद्.भूत.अनुवादि.प्राञ्चम्.यज्ञम्.चकृम.दिवः.शशासुर्.इति । (सोम: छन्दोमाह्)
यद्.एतद्.भूतम्.इव.अभि ।
अत्र.न्व्.आ.अपि.स्तोमो.न.व्याप्तव्य.इति.ह.स्म.आह.पैङ्ग्यः ।
यद्य्.ऋग्भिर्.एव.स्तोमो.व्याप्यत.इति । (सोम: छन्दोमाह्)
अक्षरैर्.ह.ऋक्.स्तोमम्.व्यश्नुते ।
अक्षरैर्.ह.पदैर्.वा.निविद्.वा.पुरोरुग्.वा.ऋचम् ।
व्याप्तो.ह.वा.उ.तत्र.स्तोमो.भवति.यत्र.निविद्.वा.पुरोरुग्.वा.शस्यते । (सोम: छन्दोमाह्)
तस्माद्.व्याप्यत.एव ।
तृचम्.आज्यम्.स्याद्.यद्.अदः.पैङ्ग्यस्य.वचसा ।
उभे.इति.त्व्.एव.स्थितम् ।
एतेन.ह.वा.अह्ना.वसिष्ठश्.च.विश्वामित्रश्.च.समजानताम् । (सोम: छन्दोमाह्)
अभिसंजानते.ह.वा.अस्मै.स्वा.श्रैष्ठ्याय.य.एवम्.वेद ।
तस्माद्.उभे.एव.स्याताम् ।
वासिष्ठम्.पूर्वम्.वैश्वामित्रम्.उत्तरम् ।
त्रैष्टुभः.प्रौगः । (सोम: छन्दोमाह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0