कौषीतकिब्राह्मण · अध्याय 25.14
वैश्ये.वसेत् ।
वैश्यो.वै.पुष्यति.इव ।
यद्.वैश्ये.अन्न.अद्यम्.तस्य.उपाप्त्यै ।
क्षत्रिये.वसेत् ।
एतद्.वै.पर.अर्ध्यम्.अन्न.अद्यम्.यत्.क्षत्रियः । (सोम: विश्वजित्)
पर.अर्ध्यस्य.अन्न.अद्यस्य.उपाप्त्यै ।
ब्राह्मणे.समान्.गोत्रे.वसेत् । (सोम: विश्वजित्)
यत्.समाने.गोत्रे.अन्न.अद्यम्.तस्य.उपाप्त्यै ।
संवत्सरम्.चरेद्.अधः.संवेश्य.फाल.कृष्टाश्य.प्रतिगृह्णन्.न.अन्नम्.याचन्न्.इदम्.तत्.तद्.अनुवसानः.(.फाल.कृष्टाश्यप्रति?) ।
तत्.तेन.अनुवस्ते । (सोम: विश्वजित्)
द्वादश.रात्रम्.चरित्वा.अथ.(?).अन्यस्यै.बुभूषायै.स्याद्.इति.ह.स्म.आह.कौषीतकिः ।
द्वादश.वै.मासाः.संवत्सरः । (सोम: विश्वजित्)
सा.संवत्सरस्य.प्रतिमा.इति ।
प्राजापत्यान्य्.अनिरुक्तानि.होत्राणाम्.आज्यानि.भवन्ति । (सोम: विश्वजित्)
तस्य.ता.नः.शक्तम्.पार्थिवस्य.युञ्जन्ति.ब्रध्नम्.अरुषम्.ता.हि.शश्वन्त.ईडते.तम्.ईडिष्व.यो.अर्चिषा.इति.वा.स्तोत्रियाः ।
ये.षष्ठस्य.अह्नः.स्तोत्रियास्.ते.विश्वजितो.अनुरूपाः । (सोम: विश्वजित्)
प्राजापत्यम्.वै.षष्ठम्.अहः ।
प्रजापतिर्.विश्वजित् ।
इतरे.पञ्च.तद्.उक्थम् ।
पर्यासैः.परिदधति । (सोम: विश्वजित्)
प्रतिष्ठा.वै.पर्यासाः ।
प्रतिष्ठित्या.एव.प्रतिष्ठ्त्या.एव । (सोम: विश्वजित्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0