कौषीतकिब्राह्मण · अध्याय 25.9
सप्रातर्.अनुवाकम्.एतद्.अहर्.दिवा.कीर्त्यम्.भवति ।
सप्रातर्.अनुवाकेन.सपत्नी.सम्याजेन.एतेन.अह्ना.पुराद्.इत्य्.अस्यास्.तम्.अयात्.समीप्सेयुः । (सोम: विषुवत्)
अग्निम्.मन्ये.पितरम्.अग्निम्.आपिम्.इत्य्.एतया.होता.तद्.अहः.प्रातर्.अनुवाकम्.प्रतिपद्यते । (सोम: विषुवत्)
आपिम्.इत्य्.आपो.रेवत्यै.रूपेण ।
दिवि.शुक्रम्.यजतम्.सूर्यस्य.इति.सूर्यवती । (सोम: विषुवत्)
तद्.एतस्य.अह्नो.रूपम् ।
तद्.उ.ह.स्म.आह.कौषीतकिः ।
प्रजापतिर्.वै.प्रातर्.अनुवाकः ।
न.तमस.एतम्.यथा.यथम्.एव.तम्.उपाकुर्युः ।
तत्.तस्य.समृद्धम् ।
तथा.यथा.यथम्.उपांश्व्.अन्तर्यामौ.हूयेते । (सोम: विषुवत्)
तद्.उ.तयोः.समृद्धम्.इति ।
वसिष्ठम्.आप्री.सूक्तम्.सम्.रश्मिभिस्.ततनः.सूर्यस्य.इति.सूर्यवत् । (सोम: विषुवत्)
तद्.एतस्य.अह्नो.रूपम् ।
शुक्र.एतस्य.अह्नः.पिङ्ग.अक्षो.होता.स्याद्.इति.ह.एक.आहुः । (सोम: विषुवत्)
अमुम्.वा.एतेन.अह्ना.ईप्सन्ति.यो.असौ.तपति ।
तद्.यथा.श्रेयांसम्.आहरन्न्.उपेयाद्.एवम्.तत् । (सोम: विषुवत्)
यथा.उपपादम्.इति.त्व्.एव.स्थितम् ।
शस्त्रेण.एव.एतस्य.अह्नो.रूपम्.सम्पाद्यिषेयुः ।
सौर्यः.पशुर्.उपालम्भ्यः.सवनीयस्य । (सोम: विषुवत्)
स.उपांशु.भवति ।
स.यस्.तम्.निर्ब्रूयात् ।
यस्.तम्.तत्र.ब्रूयात् ।
दुश्चर्मा.किलासी.भविष्यति.इति.तथा.ह.स्यात् । (सोम: विषुवत्)
ते.वा.एते.चत्वार.एव.पशव.उपांशु.भवन्ति ।
सौर्यः.सावित्रः.प्राजापत्यो.वाग्.देवत्य.इति । (सोम: विषुवत्)
अथ.अन्ये.निरुक्ताः ।
अथ.त्रीन्त्.स्वर.साम्न.आवृत्तान्.उपयन्ति.तेषाम्.उक्तम्.ब्राह्मणम् । (सोम: विषुवत्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0