भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 25.8

25.8.1

युञ्जते.मन.उत.युञ्जते.धिय.इति.सावित्रम्.उत.सूर्यस्य.रश्मिभिः.समुच्यसि.इति.सूर्यवत् ।

25.8.2

तद्.एतस्य.अह्नो.रूपम् । (सोम: विषुवत्)

25.8.3

ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.इति.द्यावा.पृथिवीयम्.देवो.देवी.धर्मणा.सूर्यः.शुचित्.इति.सूर्यवत् । (सोम: विषुवत्)

25.8.4

तद्.एतस्य.अह्नो.रूपम् ।

25.8.7

किम्.उ.श्रेष्ठः.किम्.यविष्ठो.न.आजगन्न्.इत्य्.आर्भवम् ।

25.8.6

यद्.आवाख्यच्.चमसान्.चतुरः.कृतान्.इत्य्.अवाख्यद्.इत्य्.एतेन.रूपेण । (सोम: विषुवत्)

25.8.7

देवान्.हुवे.बृहत्.श्रवसः.स्वस्तय.इति.वैश्वदेवम्.ये.सूर्यस्य.ज्योतिषो.भागम्.आनशुर्.इति.सूर्यवज्.ज्योतिष्मत् ।

25.8.8

तद्.एतस्य.अह्नो.रूपम् । (सोम: विषुवत्)

25.8.9

वैश्वानराय.धिषणाम्.ऋता.वृध.इति.वैश्वानरीयम्.रुरुचानम्.भानुना.ज्योतिषा.महाम्.इति.रुचितवद्.भानुमज्.ज्योतिष्मत् । (सोम: विषुवत्)

25.8.10

तद्.एतस्य.अह्नो.रूपम् ।

25.8.11

प्रयज्यवो.मरुतो.भ्राजद्.ऋष्टय.इति.मारुतम्.विरोकिणः.सूर्यस्य.इव.रश्मय.इति.सूर्यवत् । (सोम: विषुवत्)

25.8.12

तद्.एतस्य.अह्नो.रूपम् ।

25.8.13

वेदिषदे.प्रिय.धामाय.सुद्युत.इति.जात.वेदसीयम् ।

25.8.14

ज्योती.रथम्.शुक्र.वर्णम्.तम्.ओहनम्.इत्य्.एतेन.रूपेण ।

25.8.15

इत्य्.आग्निमारुत.सूक्तानि । (सोम: विषुवत्)

25.8.16

इत्य्.एतस्य.अह्नः.सूक्तानि ।

25.8.17

तद्.अग्निष्टोमः.संतिष्ठते ।

25.8.18

ज्योतिर्.वा.अग्निष्टोमः ।

25.8.19

ज्योतिर्.एष.य.एष.तपति । (सोम: विषुवत्)

25.8.20

ज्योतिष्य्.एव.तज्.ज्योतिः.प्रतिष्ठापयन्ति ।

25.8.21

ते.अमृतत्वम्.आप्नुवन्ति.ये.वैषुवतम्.अहर्.उपयन्ति । (सोम: विषुवत्)

25.8.22

उप्राद्.इत्य्.अस्यास्.तम्.अयाद्.एतद्.अहः.संस्थापयिषेयुः । (सोम: विषुवत्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc