भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 25.10

25.10.1

त्रयोदशम्.अधिचरम्.मासम्.आप्नुवन्ति.यद्.विश्वजितम्.उपयन्ति ।

25.10.2

एतावान्.वै.संवत्सरो.यद्.एष.त्रयोदशो.मासः ।

25.10.3

तद्.अत्र.एव.सर्वः.संवत्सर.आप्तो.भवति । (सोम: विश्वजित्)

25.10.4

तम्.आहुर्.एकाहः.षडह.इति ।

25.10.5

यद्य्.अन्वहम्.षडहे.क्रियते ।

25.10.6

एकाहे.तद्.विश्वजिति.क्रियते । (सोम: विश्वजित्)

25.10.7

तद्.वा.इदम्.बहु.विश्व.रूपम्.विश्वजिति.क्रियते ।

25.10.8

यत्.सर्वाणि.प्ष्ठानि.सर्वे.स्तोमा.उच्च.अवचाः.समवधीयन्ते । (सोम: विश्वजित्)

25.10.9

वैराजम्.एव.अस्य.प्रत्यक्षम्.पृष्ठम्.भवति ।

25.10.10

माध्यंदिने.पवमाने.रथन्तरम् । (सोम: विश्वजित्)

25.10.11

बृहत्.तृतीये.पवमाने.क्रियते ।

25.10.12

शाक्वरम्.मैत्रावरुणस्य ।

25.10.13

वैरूपम्.ब्राह्मणाच्छंसिनः ।

25.10.14

रैवतम्.अच्छावाकस्य ।

25.10.15

त.एतम्.त्रयोदशम्.अधिचरम्.मासम्.आप्नुवन्ति । (सोम: विश्वजित्)

25.10.16

एतद्द्.हि.त्रयोदशम् ।

25.10.17

पृष्ठ्यान्य्.उपयन्ति ।

25.10.18

तस्य.अग्निम्.नरो.दीधितिभिर्.अरण्योर्.इति.वैराजम्.आज्यम् । (सोम: विश्वजित्)

25.10.19

वैराजम्.पृष्ठम्.तस्य.उक्तम्.ब्राह्मणम् ।

25.10.20

वासिष्ठम्.आज्यम् । (सोम: विश्वजित्)

25.10.21

वासिष्ठम्.पृष्ठम्.तस्य.उक्तम्.ब्राह्मणम् ।

25.10.22

माधुच्.छन्दसः.प्रौगस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: विश्वजित्)

25.10.23

कया.शुभा.सवयसः.सनीडा.इति.मरुत्वतीयम् ।

25.10.24

कद्वत्.कया.शुभीयम् । (सोम: विश्वजित्)

25.10.25

को.वै.प्रजापतिर्.विश्वजित् ।

25.10.26

याव्.एव.अमू.वैराजस्य.स्तोत्रिय.अनुरूपौ.त.स्तोत्रिय.अनुरूपौ ।

25.10.27

तयोस्.तथा.एव.न्यूङ्खयति.यथा.अदश्.चतुर्थे.अहन्.(यथादश्.चतुर्थे.) ।

25.10.28

न.हि.वैराजम्.तत्.स्थानम्.अन्यूङ्खनाय । (सोम: विश्वजित्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc