कौषीतकिब्राह्मण · अध्याय 25.7
सा.एषा.दूरोहणीया.संशस्ता.सप्त.जगत्यः.सम्पद्यन्ते ।
ता.अष्ट.त्रिंशत् ।
एष.प्र.पूर्वीर्.अव.तस्य.चंरिष.इति.जागतम्.षडृचम्.इन्द्रम्.सिषक्त्य्.उषसम्.न.सूर्य.इति.सूर्यवत् ।
तद्.एतस्य.अह्नो.रूपम् । (सोम: विषुवत्)
ताश्.चतुश्.चत्वारिंशत् ।
पतङ्गम्.अक्तम्.असुरस्य.मायया.इति.तिस्रः ।
ताम्.द्योतमानाम्.स्वर्यम्.मनोषाम्.इत्य्.एतेन.रूपेण । (विषुवत्)
ताः.सप्त.चत्वारिंशत् ।
उरुम्.नो.लोकम्.अनु.नेषि.विद्वान्.इति.त्रिः.शस्तया.परिधानीयया । (सोम: विषुवत्)
स्वर्वज्.ज्योतिर्.अभयम्.स्वस्ति.इत्य्.एतेन.रूपेण ।
ताः.पञ्चाशत् ।
पूर्वा.एक.पञ्चाशत् । (सोम: विषुवत्)
ता.एक.शतम्.ऋचो.भवन्ति ।
शत.आयुर्.वै.पुरुषः.शत.पर्वा.शत.वीर्यः.शत.इन्द्रियः । (सोम: विषुवत्)
उप.या.एक.शततमी.स.यजमान.लोकः ।
तद्.अत्र.एव.यजमानान्त्.संस्कुर्वन्ति । (सोम: विषुवत्)
तद्.अत्र.यजमानान्त्.संस्कृत्य.आदौ.महा.व्रतीयेन.अह्ना.प्रजनयन्ति.इति.पङ्गी.सम्पत् ।
अथ.कौषीतकेः । (सोम: विषुवत्)
समानम्.ओक्थ्य.मुखीयायै.(.उक्थ्य.मुखीय.)।
ऋतुर्.जनित्रीयम्.त्रयोदशर्चम्.उद्धृत.बृहद्.रथन्तरे ।
तस्य.एव.एकादश.स्व.योनौ । (सोम: विषुवत्)
नव.अन्यत्र ।
तद्.रूपा.मिनन्.तद्.अपा.एक.ईयत.इत्य्.एतेन.रूपेण ।
आ.इन्द्र.याहि.हरिभिर्.इति.पञ्चदश ।
सरूपैर्.आ.सु.नो.गहि.इत्य्.एतेन.रूपेण । (सोम: विषुवत्)
बरोर्.एकादश.शस्त्वा.निविदम्.दधाति ।
मध्य.एकशतस्य.एक.पञ्चाशतम्.शस्त्वा.द्वे.बरोर्.अभ्युदैति । (सोम: विषुवत्)
आ.सत्यो.यातु.मघवान्.ऋजीषी.इत्य्.एकविंशतिस्.तास्.त्रयोविशंतिः ।
विश्वजित.इति.षट्.ता.एकयान.त्रिंशत्.(?)। (सोम: विषुवत्)
दूरोहणीयाः.सप्त.ता.षट्त्रिंशत् ।
अभूर्.एको.रयि.पते.रयीणाम्.इति.त्रैष्टुभम्.पञ्चर्चम्.दश.प्रपित्वे.अध.सूर्यस्य.इति.सूर्यवत् । (सोम: विषुवत्)
तद्.एतस्य.अह्नो.रूपम् ।
ता.एक.चत्वारिंशत् ।
त्यम्.ऊ.षु.वाजिनम्.देव.जूतम्.इति.तार्क्ष्यस्.तिस्रः । (सोम: विषुवत्)
सूर्य.इव.ज्योतिषा.अपस्.ततान.इत्य्.एतेन.रूपेण ।
ताश्.चतुश्.चत्वारिंशत् । (सोम: विषुवत्)
पतङ्गस्.तिस्रस्.ताः.सप्त.चत्वारिंशत् ।
उरुम्.नो.लोकम्.अनु.नेषि.विद्वान्.इति.त्रिः.शस्तया.परिधानीयया.ताः.पञ्चाशत् । (सोम: विषुवत्)
पूर्वा.एक.पञ्चाशत् ।
ता.एकशतम्.ऋचो.भवन्ति.तासाम्.उक्तम्.ब्राह्मणम् । (सोम: विषुवत्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0