कौषीतकिब्राह्मण · अध्याय 25.6
प्र.ते.महे.विदथे.शंसिषम्.हरी.इति ।
तस्य.नव.शस्त्वा.आहूय.निविदम्.दधाति । (सोम: विषुवत्)
आविष्.कृधि.हरये.सूर्याय.इति.सूर्यवत् ।
तद्.एतस्य.अह्नो.रूपम् ।
सर्व.हरेश्.चतस्रो.अभ्युदैति । (सोम: विषुवत्)
आ.सत्यो.यातु.मघवान्.ऋजीषी.इत्य्.एकविंशतिः ।
महि.ज्योती.रुरुचुर्.यद्द्.ह.वस्तोर्.इत्य्.एतेन.रूपेण । (सोम: विषुवत्)
ताः.पञ्चविंशतिः ।
विश्वजिते.धनजिते.स्वर्.जित.इति.षड्.जगत्यः । (सोम: विषुवत्)
इन्द्राय.सोमम्.यजताय.हर्यतम्.इत्य्.एतेन.रूपेण ।
ता.एकत्रिंशत् ।
तासु.जगतीषु.दूरोहणम्.रोहति । (सोम: विषुवत्)
जागतो.वा.एष.य.एष.तपति ।
यजमाना.दूरोहणः ।
एतम्.एव.तद्.यजमाना.रोहन्ति । (सोम: विषुवत्)
तद्.अन्तरिक्ष.लोकम्.आप्नुवन्ति ।
त्रि.पच्छस्.तृतीयम् ।
तद्.अमुंल्.लोकम्.आप्नुवन्ति ।
केवलीम्.स.आवेशः । (सोम: विषुवत्)
त्रिपच्छो.अर्धर्चशः.पच्छः ।
तद्.अस्मिंल्.लोके.प्रतितिष्ठन्ति ।
प्रतिष्ठायाम्.अप्रच्युत्याम् । (सोम: विषुवत्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0