भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 25.5

25.5.1

द्यौर्.न.य.इन्द्र.अभि.भूम.अर्य.(.भूमार्य.).इति.त्रैष्टुभम्.इन्द्रः.कुत्साय.सूर्यस्य.साताव्.इति.सूर्यवत् । (सोम: विषुवत्)

25.5.2

तद्.एतस्य.अह्नो.रूपम् ।

25.5.3

न.चेत्.स्व.योनौ ।

25.5.4

श्रायन्त.इव.सूर्यम्.इति.सूर्यवान्त्.स्तोत्रियः ।

25.5.5

तद्.एतस्य.अह्नो.रूपम् ।

25.5.6

यद्.द्याव.इन्द्र.ते.शतम्.इत्य्.अनुरूपः.सहस्रम्.सूर्या.इति.सूर्यवान् । (सोम: विषुवत्)

25.5.7

तद्.एतस्य.अह्नो.रूपम् ।

25.5.8

यः.सत्राहा.विचर्षणिर्.इति.साम.प्रगाथस्.तनूष्व्.अप्सु.सूर्य.इति.सूर्यवान् । (सोम: विषुवत्)

25.5.9

तद्.एतस्य.अह्नो.रूपम् ।

25.5.10

अथ.बृहद्.रथन्तरयोर्.योनी.शंसति । (सोम: विषुवत्)

25.5.11

इन्द्रः.किल.श्रुत्या.अस्य.वेद.इत्य्.उक्थ.मुखीया.तस्या.उक्तम्.ब्राह्मणम् ।

25.5.12

य.एक.इद्द्.हव्यश्.चर्षणीनाम्.इति.त्रैष्टुभम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: विषुवत्)

25.5.13

एवम्.नु.यदि.बृहत्.स्व.योनौ.वा.अस्व.योनौ.वा.कुर्युः ।

25.5.14

अनुभय.सामानम्.चेत्.कुर्युः ।

25.5.15

समानम्.ओक्थ्य.मुखीयायै.(.उक्थ्य.मुखीय.)।

25.5.16

उद्धरेद्.बृहद्.रथन्तरयोर्.योनी ।

25.5.17

तम्.उ.ष्टुहि.यो.अभिभूत्य्.ओजा.इति.त्रैष्टुभम् ।

25.5.18

गीर्भिर्.वर्ध.वृषभम्.चर्षणीनाम्.इत्य्.एतेन.रूपेण । (सोम: विषुवत्)

25.5.19

समानम्.उत्तरम् ।

25.5.20

अभि.त्यम्.मेषम्.पुरु.हूतम्.ऋब्मियम्.इति.जागतम्.आद्.इत्.सूर्यम्.दिव्य.आरोहयो.दृश.इति.सूर्यवत् । (सोम: विषुवत्)

25.5.21

तद्.एतस्य.अह्नो.रूपम् ।

25.5.22

ता.वा.उभय्यस्.त्रिष्टुप्.जगत्यः.शस्यन्ते । (सोम: विषुवत्)

25.5.23

त्रिष्टुब्.जगत्योर्.ह.वा.एष.आहित.आदित्यः.प्रतिष्ठितस्.तपति ।

25.5.24

तद्.एनम्.प्रत्यक्षम्.स्पृशन्ति । (सोम: विषुवत्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc