भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 25.4

25.4.1

विभ्राड्.बृहत्.पिबतु.सोम्यम्.मध्व्.इति.स्तोत्रियस्.तृचो.विश्व.भ्राड्.भ्राजो.महि.सूर्यो.दृश.इति.विवान्.भ्राजिष्मान्त्.सूर्यवान् । (सोम: विषुवत्)

25.4.2

तद्.एतस्य.अह्नो.रूपम् । (सोम: विषुवत्)

25.4.3

वि.सूर्यो.मध्ये.अमुचद्.रथम्.दिव.इत्य्.अनुरूपो.विवान्त्.सूर्यवान् । (सोम: विषुवत्)

25.4.4

जागतम्.उ.वै.समानम्.छन्दः ।

25.4.5

विश्वहा.त्वा.सुमनसः.सुचक्षस.इति.त्व्.एव.स्थितः.सरुयः.सौर्यस्य । (सोम: विषुवत्)

25.4.6

ज्योग्.जीवाः.प्रति.पश्येम.सूर्या.इत्य्.एतेन.रूपेण ।

25.4.7

बण्.महान्.असि.सूर्य.इति.सूर्यवान्त्.साम.प्रगाथः ।

25.4.8

तद्.एतस्य.अह्नो.रूपम् ।

25.4.9

अथ.बृहद्.रथन्तरयोर्.योनी.शंसति । (सोम: विषुवत्)

25.4.10

इन्द्रः.किल.श्रुत्या.अस्य.वेद.इत्य्.उक्थ्य.मुखीया.स.हि.जिष्णु.पथिकृत्.सूर्याय.इति.सूर्यवती । (सोम: विषुवत्)

25.4.11

तद्.एतस्य.अह्नो.रूपम् ।

25.4.12

शम्.नो.भव.चक्षसा.शम्.नो.अह्ना.इति.त्व्.एव.स्थिता.सौरी.सौर्यस्य ।

25.4.13

तत्.सूर्य.द्रविणम्.धेहि.चित्रम्.इत्य्.एतेन.रूपेण । (सोम: विषुवत्)

25.4.14

य.एक.इद्द्.हव्यश्.चर्षणीनाम्.इति.त्रैष्टुभम् ।

25.4.15

दिव्यानि.दीपयो.अन्तरिक्षा.इत्य्.एतेन.रूपेण । (सोम: विषुवत्)

25.4.16

एवम्.नु.यदि.महा.दिवा.कीर्त्यम्.पृष्ठम्.भवति ।

25.4.17

यद्य्.उ.वै.बृहत्.स्व.योनौ.कुर्युः । (सोम: विषुवत्)

25.4.18

बृहत.आतानम्.शस्त्वा.रथन्तरस्य.योनिम्.शंसति ।

25.4.19

इन्द्रः.किल.श्रुत्या.अस्य.वेद.इत्य्.उक्थ्य.मुखीया.स.हि.जिष्णुः.पथिकृत्.सूर्याय.इति.सूर्यवती ।

25.4.20

तद्.एतस्य.अह्नो.रूपम् । (सोम: विषुवत्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc