कौषीतकिब्राह्मण · अध्याय 25.3
कया.शुभा.सवयसः.सनीडा.इति.मरुत्वतीयम् ।
शुभा.भा.इत्य्.एतेन.रूपेण । (सोम: विषुवत्)
त्यम्.सु.मेषम्.महया.स्वर्विदम्.इति.जागतम्.अधारयो.दिव्या.सूर्य.दृश.इति.सूर्यवत् । (सोम: विषुवत्)
तद्.एतस्य.अग्नो.रूपम् ।
जनिष्ठा.उग्रः.सहसे.तुराय.इत्य्.एतस्मिंस्.त्रैष्टुभे.निविदम्.दधाति । (सोम: विषुवत्)
अप.ध्वान्तम्.ऊर्णुहि.पूर्धि.चक्षुर्.इत्य्.एतेन.रूपेण । (सोम: विषुवत्)
ता.वा.उभय्यस्.त्रिष्टुब्.जगत्यः.शस्यन्ते ।
त्रिष्टुब्.जगत्योर्.ह.वा.एष.आहित.आदित्यः.प्रतिष्ठितस्.तपति । (सोम: विषुवत्)
तद्.एनम्.प्रत्यक्षम्.आप्नुवन्ति ।
बृहद्.एतस्य.अह्नः.पृष्ठम्.स्याद्.इति.ह.एक.आहुः । (सोम: विषुवत्)
बार्हतो.वा.एष.य.एष.तपति ।
तद्.एनम्.स्वेन.रूपेण.समर्धयन्ति । (सोम: विषुवत्)
बृहद्.एतत्.तपति.इति.वदन्तः । (सोम: विषुवत्)
अथो.अपृष्ठम्.वा.एतद्.यन्.महा.दिवा.कीर्त्यम् ।
अथ.एते.एव.प्रत्यक्षे.पृष्ठे.यद्.बृहद्.रथन्तरे ।
तस्माद्.बृहद्.एव.एतस्य.अह्नः.पृष्ठम्.स्याद्.इति ।
यद्य्.उ.सूर्यवति.प्रगाथे.बृहत्.कुर्युः । (सोम: विषुवत्)
तस्माद्.बृहद्.एव.एतस्य.अह्नः.पृष्ठम्.स्याद्.इति ।
यद्य्.उ.सूर्यवति.प्रगाथे.बृहत्.कुर्युः । (सोम: विषुवत्)
सूर्यवतश्.च.प्रगाथान्.एतस्य.एव.अह्नो.रूपेण ।
इन्द्रः.किल.श्रुत्या.अस्य.वेद.इत्य्.उक्थ.मुखीया.स.हि.जिष्णुः.पथिकृत्.सूर्याय.इति.सूर्यवती । (सोम: विषुवत्)
तद्.एतस्य.अह्नो.रूपम् ।
महा.दिवा.कीर्त्यम्.एव.एतस्य.अह्नः.पृष्ठम्.स्याद्.इति.सा.स्थितिः । (सोम: विषुवत्)
असौ.वा.एतत्.प्रत्यक्षम्.साम.यो.असौ.तपति.यन्.महा.दिवा.कीर्त्यम् । (सोम: विषुवत्)
तद्.एनम्.स्वेन.साम्ना.समर्धयन्ति ।
तद्द्.ह.एके.त्रिष्टुप्सु.कुर्वन्ति । (सोम: विषुवत्)
त्रैष्टुभो.वा.एष.य.एष.तपति ।
तद्.एनम्.स्वेन.रूपेण.समर्धयन्ति ।
बृहतीषु.स्याद्.इत्य्.उ.ह.एक.आहुः । (सोम: विषुवत्)
बार्हतो.वा.एष.य.एष.तपति ।
तद्.एनम्.स्वेन.रूपेण.समर्धयन्ति । (सोम: विषुवत्)
जगतीषु.स्याद्.इति.त्व्.एव.स्थितम् ।
जागतो.वा.एष.य.एष.तपति ।
तद्.एनत्.स्वेन.छन्दसा.समर्धयति । (सोम: विषुवत्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0