कौषीतकिब्राह्मण · अध्याय 25.2
कुविद्.अङ्ग.नमसा.ये.वृधास.इति.वायव्यम् ।
अवासयन्न्.उषसम्.सूर्येण.इति.सूर्यवत् ।
तद्.एतस्य.अह्नो.रूपम् । (सोम: विषुवत्)
अत.एव.उत्तरम्.तृचम्.ऐन्द्रवायवम्.यावत्.तरस्.तन्वो.यावद्.ओज.इति ।
यावन्.नरश्.चक्षसा.दीध्याना.इत्य्.एतेन.रूपेण । (सोम: विषुवत्)
उद्.वाम्.चक्षुर्.वरुण.सुप्रतीकम्.इति.मैत्रावरुणम् ।
देवयोर्.एति.सूर्यस्.ततन्वान्.इति.सूर्यवत् । (सोम: विषुवत्)
तद्.एतस्य.अह्नो.रूपम् ।
आ.गोमता.नासत्या.रथेन.इत्य्.आश्विनम् । (सोम: विषुवत्)
तस्य.ऊर्ध्वम्.भानुम्.सविता.देवो.अश्रेद्.इति.तृतीया.भानुमती । (सोम: विषुवत्)
तद्.एतस्य.अह्नो.रूपम् ।
आ.नो.देव.शवसा.याहि.शुष्मिन्न्.इत्य्.ऐन्द्रम् । (सोम: विषुवत्)
तनूषु.शूराः.सूर्यस्य.साताव्.इति.सूर्यवत् ।
तद्.एतस्य.अह्नो.रूपम् । (सोम: विषुवत्)
प्र.ब्रह्म.एतु.सदनाद्.ऋतस्य.इति.वैश्वदेवम् ।
वि.रश्मिभिः.ससृजे.सूर्यो.गा.इति.सूर्यवत् । (सोम: विषुवत्)
तद्.एतस्य.अह्नो.रूपम् ।
उत.स्या.नः.सरस्वती.जुषोणा.इति.सारस्वतम् ।
द्वार.आवृतस्य.सुभगे.व्यावर्.इत्य्.एतेन.रूपेण । (सोम: विषुवत्)
एष.वा.उ.वासिष्ठस्.तृच.क्लृप्तस्.त्रैष्टुभः.प्रौगः ।
प्रजापतिर्.वै.वसिष्ठः । (सोम: विषुवत्)
स.तन्ता.यज्ञस्य ।
स.पुनस्.तताव्.अयात.यामा.भवति । (सोम: विषुवत्)
प्रजापताव्.एव.तत्.सर्वान्.कामान्.ऋध्नुवन्ति ।
तद्.आहुर्.न.त्रैष्टुभम्.प्रातः.सवनम्.स्यान्.मोहयति.क्लृप्तच्.छन्दसो.यज्ञ.मुखम्.इति । (सोम: विषुवत्)
ऐकाहिकम्.एव.स्यात् ।
ज्योतिर्.वा.एकाहः ।
ज्योतिर्.एष.य.एष.तपति । (सोम: विषुवत्)
ज्योतिषा.एव.तज्.ज्योतिः.समर्धयति ।
तस्य.प्र.वो.देवाय.अग्नये.त्वम्.हि.क्षैतवद्.यश.इत्य्.एते.उभे.तद्.आज्यम् । (सोम: विषुवत्)
ता.एकविंशतिम्.अनुष्टुभस्.तासाम्.उक्तम्.ब्राह्मणम् ।
माधुच्छन्दसः.प्रौगस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: विषुवत्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0