कौषीतकिब्राह्मण · अध्याय 25.1
आपस्.तपो.अतप्यन्त ।
तास्.तपस्.तप्त्वा.गर्भम्.अदधत ।
तत.एष.आदित्यो.अजायत.षष्ठे.मासि ।
तस्मात्.सत्रिणः.षष्ठे.मासिदिवा.कीर्त्यम्.उपयन्ति । (सोम: विषुवत्)
स.षण्.मासान्.उदन्न्.एति.षड्.आवृत्तः ।
तस्मात्.सत्रिणः.षड्.एव.ऊर्ध्वान्.मासो.यन्ति.षड्.आवृत्तान् । (सोम: विषुवत्)
अन्तरेण.उ.ह.वा.एतम्.अशनाया.च.पुनर्.मृत्युश्.च ।
अपाशनायाम्.च.पुनर्.मृत्युम्.च.जयन्ति.ये.वैषुवतम्.अहर्.उपयन्ति । (सोम: विषुवत्)
तस्य.एतानि.छन्दो.रूपाणि ।
सूर्यवद्.भानुमज्.ज्योतिष्मद्.रुक्मवद्.रुचितवद्द्.हर्यतवद्.इति । (सोम: विषुवत्)
समुद्राद्.ऊर्मिर्.मधुमान्.उदारद्.इत्य्.आज्यम् ।
समुद्राद्द्.ह्य्.एषो.अद्भ्य.उदैति ।
इन्द्र.एकम्.सूर्यम्.एकम्.जजान.इति.सूर्यवत् । (सोम: विषुवत्)
तद्.एतस्य.अह्नो.रूपम् ।
ताः.संशस्ता.एकविंशतिम्.अनुष्टुभः.सम्पद्यन्ते । (सोम: विषुवत्)
एकविंशो.वा.एष.य.एष.तपति ।
तद्.एनम्.स्वेन.रूपेण.समर्धयन्ति । (सोम: विषुवत्)
त्रैष्टुभः.प्रौगः ।
विषुवान्.वा.एषो.अह्नाम् । (सोम: विषुवत्)
विषुपान्.छन्दसाम्.त्रिष्टुप् ।
तद्.एनत्.स्वेन.छन्दसा.समर्धयति । (सोम: विषुवत्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0