कौषीतकिब्राह्मण · अध्याय 25.13
यः.सत्रियः.सांवत्सरिको.विश्वजित् ।
प्रतिष्ठा.वा.अग्निष्टोमः.प्रतिष्ठित्या.एव । (सोम: विश्वजित्)
एकाह.उ.चेद्.विश्वजिद्.रात्रि.सत्रस्य.वा.विषुवान्.अतिरात्र.एव.स्यात् । (सोम: विश्वजित्)
स.कृत्स्नो.विश्वजिद्.यो.अतिरात्रः ।
अर्धम्.वै.विश्वजितो.अह्ना.क्रियते । (सोम: विश्वजित्)
अर्धम्.रात्र्या ।
सर्व.पराजिद्.उ.ह.एव.स.यो.अन्यत्र.सर्व.वेदसाद्.वा.सत्राद्.वा.क्रियते ।
सर्व.ज्यानिर्.ह.एव.सा । (सोम: विश्वजित्)
यो.अन्यत्र.विश्वजितः.सर्वम्.ददाति ।
विश्वजिच्.चेत्.सर्वम्.एव ।
सर्वम्.उ.चेद्.विश्वजिद्.एव । (सोम: विश्वजित्)
यो.ह.वै.न.सर्वम्.ददामि.इति.ब्रुवन् ।
कर्तपत्यम्.एव.तज्.जीयते.प्र.वा.मीयते.इति.ह.स्म.आह । (सोम: विश्वजित्)
सहस्रम्.वा.एनम्.अवरुन्ध.इति.ह.स्म.आह.कौषीतकिः ।
सर्वम्.वै.तद्.यत्.सहस्रम् । (सोम: विश्वजित्)
सर्वम्.विश्वजित् ।
तत्.सर्वेण.सर्वम्.आप्नोति.य.एवम्.वेद ।
वत्सच्.छवीन्.परिदधीत ।
रिरिचान.इव.वा.एतस्य.आत्मा.भवति.यः.सर्वम्.ददाति । (सोम: विश्वजित्)
वत्सम्.वै.पशवो.वाञ्छन्ति ।
पुनर्.मा.पशवो.वाञ्छन्त्व्.इति ।
उदुम्बरे.वसेत् । (सोम: विश्वजित्)
ऊर्ग्.वा.अन्न.अद्यम्.उदुम्बरः ।
ऊर्जो.अन्न.अद्यस्य.उपाप्त्यै ।
नैषादे.वसेत् । (सोम: विश्वजित्)
एतद्.वा.अवर.अर्ध्यम्.अन्न.अद्यम्.नन्.नैषादः ।
अवर.अर्ध्यस्य.अन्न.अद्यस्य.उपाप्त्यै । (सोम: विश्वजित्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0