भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 25.12

25.12.1

अथो.प्रजापतिर्.वै.विश्वजित् ।

25.12.2

सर्वम्.वै.प्रजापतिर्.विश्वजित् ।

25.12.3

तत्.सर्वेण.सर्वम्.आप्नोति.य.एवम्.वेद । (सोम: विश्वजित्)

25.12.4

तत्र.अग्नि.मारुते.रौद्रीम्.शस्त्वा.होता.एवया.मरुतम्.पङ्क्ति.शंसम्.शंसति.(एवयामरुतम्?) । (सोम: विश्वजित्)

25.12.5

पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.अवाप्त्यै ।

25.12.6

न.इद्.अच्छावाकस्य.शिल्पम्.अन्तरयाम.इति ।

25.12.7

अथो.रुद्रो.वै.ज्येष्ठश्.च.श्रेष्ठश्.च.देवानाम् । (सोम: विश्वजित्)

25.12.8

अतिच्छन्दाश्.छन्दसाम् ।

25.12.9

विश्वजिद्.एकाहानाम् ।

25.12.10

तद्.एनत्.स्वेन.छन्दसा.समर्धयति । (सोम: विश्वजित्)

25.12.11

तस्य.तिसृषु.न्यूङ्खयति ।

25.12.12

न्यूङ्खयितुम्.चेद्.द्रियेत ।

25.12.13

सर्वास्व्.एव.न्यूङ्खयेत् । (सोम: विश्वजित्)

25.12.14

अन्नम्.वै.न्यूङ्खः ।

25.12.15

अन्नम्.प्राणः ।

25.12.16

प्राणाः.शिल्पानि ।

25.12.17

प्राण.एव.तत्.प्राणान्.दधाति । (सोम: विश्वजित्)

25.12.18

अथो.विश्वजिता.वै.प्रजापतिः.सर्वाः.प्रजा.अजनयत्.सर्व.उदजयत् । (सोम: विश्वजित्)

25.12.19

एतद्.वा.एष.जायते.विश्वजिता.यो.यजते ।

25.12.20

तस्मान्.न्यूङ्खयति । (सोम: विश्वजित्)

25.12.21

न्यूङ्खमानक.इव.वै.प्रथमम्.चिचर्षंश्.चरति ।

25.12.22

तद्.एनम्.अमृतात्.छन्दसो.अमृतत्वाय.प्रजनयन्ति । (सोम: विश्वजित्)

25.12.23

ते.अमृतत्वम्.आप्नुवन्ति.ये.विश्वजितम्.उपयन्ति ।

25.12.24

सो.अग्निष्टोमः.संतिष्ठते । (सोम: विश्वजित्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc