कौषीतकिब्राह्मण · अध्याय 25.11
तद्.इद्.आस.भुवनेषु.ज्येष्ठम्.इति.निष्केवल्यम् ।
यज्ञो.वै.भुवनेषु.ज्येष्ठः ।
यज्ञ.उ.वै.प्रजापतिर्.विश्वजित् । (सोम: विश्वजित्)
अथ.यत्.षष्ठस्य.अह्नस्.तृतीय.सवनम्.तत्.तृतीय.सवनम् । (सोम: विश्वजित्)
प्राजापत्यम्.वै.षष्ठम्.अहः ।
प्रजापतिर्.विश्वजित् ।
ऐकाहिकी.प्रतिपद् ।
एकाहो.वै.विश्वजित् । (सोम: विश्वजित्)
प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव ।
तद्.आहुर्.अथ.कस्माद्.विश्वजिति.सर्व.पृष्ठ.एकाहे.तृतीय.सवने.शिल्पानि.शस्यन्ते.कस्माद्.अग्निष्टोमे.मध्यंदिन.इति । (सोम: विश्वजित्)
ये.वा.इमे.अवाञ्चः.प्राणास्.तानि.शिल्पानि ।
पुरुषो.वै.यज्ञः ।
तस्य.य.ऊर्ध्वा.प्राणास्.तत्.प्रातः.सवनम् । (सोम: विश्वजित्)
आत्मा.मध्यंदिनः ।
ये.अवाञ्चस्.तत्.तृतीय.सवनम्.ताइ.शिल्पानि । (सोम: विश्वजित्)
तस्मात्.तृतीय.सवने.शिल्पानि.शस्यन्ते ।
एतद्द्.ह्य्.एषाम्.आयतनम् । (सोम: विश्वजित्)
अथ.यद्.अग्निष्टोमे.सत्रिये.सांवत्सरिके.विश्वजिति.सर्व.पृष्ठे.मध्यंदिने.शिल्पानि.शस्यन्ते । (सोम: विश्वजित्)
आत्मा.वै.पृष्ठानि ।
प्राणाः.शिल्पानि ।
न.वा.अन्तरेण.आत्मानम्.प्राणाः.ख्यायन्ते । (सोम: विश्वजित्)
न.प्राणान्.अन्तरेण.आत्मा ।
नो.एतन्.नाना ।
तस्माद्.अग्निष्टोम.एव.अपि.मध्यंदिने.शिल्पानि.शस्यन्ते । (सोम: विश्वजित्)
न.इत्.प्राणेभ्य.आत्मानम्.अपादधानि.इति । (सोम: विश्वजित्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0