कौषीतकिब्राह्मण · अध्याय 24.8
पृष्ठ्यस्य.षडहस्य.समूढस्य.याः.पूर्वस्य.त्र्यहस्य.वैश्वदेवानाम्.प्रतिपदस्.ताः.प्रतिपदः ।
यान्य्.उत्तरस्य.त्र्यहस्य.तृतीय.सवनानि.तानि.तृतीय.सवनानि.सानुचराणि । (सोम: स्वर.सामन्)
तद्.यानि.तत्र.वैश्वदेवानि.तान्य्.उद्धृत्य.अन्यान्य्.अन्यान्य्.अनिरुक्तानि.प्राजापत्यानि.परोक्ष.वैश्वदेवान्य्.अवधीयन्ते । (सोम: स्वर.सामन्)
प्र.वः.पान्तम्.रघु.मन्यवो.अन्धस्.तम्.प्रत्नथा.पूर्वथा.विश्वथा.ईमथा.कद्.इत्था.नॄन्ः.पात्रम्.देवयताम्.इति । (सोम: स्वर.सामन्) (विश्वथेमथा?)
प्रति.नाभानेदिष्ठः ।
तद्.वै.खलु.प्रत्यक्ष.वैश्वदेवान्य्.एव.अवधीयेरन् ।
अग्निर्.इन्द्रो.वरुणो.मित्रो.अर्यमा.इति.प्रथमे.अहनि.द्याम्.स्कभित्वी.इति.कद्वत् । (सोम: स्वर.सामन्)
देवान्.हुवे.बृहत्.श्रवसः.स्वस्तय.इति.द्वितीये.ज्योतिष्.कृत.इति.कद्वत् । (सोम: स्वर.सामन्)
उषासा.नक्ता.बृहती.सुपेशसा.इति.तृतीये.नक्ता.इति.कद्वत् ।
को.वै.प्रजापतिः । (सोम: स्वर.सामन्)
प्रजापतिः.स्वर.सामानः ।
ते.अग्निष्टोमा.वा.उक्थ्या.वा.संतिष्ठन्ते ।
अग्निष्टोमा.इति.पैङ्ग्यम् । (सोम: स्वर.सामन्)
ब्रह्म.वर्चसिनो.भवन्ति.ये.अग्निष्टोमान्.उपयन्ति ।
उक्थ्याः.स्युर्.इति.ह.स्म.आह.कौषीतकिः । (सोम: स्वर.सामन्)
स.वै.यज्ञ.क्रतुः.समृद्धो.य.उक्थ्यः ।
पञ्चदश.ह्य्.अस्य.स्तोत्राणि.भवन्ति । (सोम: स्वर.सामन्)
पञ्चदश.शस्त्राणि ।
तानि.त्रिंशत्.स्तुत.शस्त्राणि ।
स.विराजम्.अभिसम्पद्यते । (सोम: स्वर.सामन्)
श्रीर्.विराड्.अन्न.अद्यम् ।
श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै.श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । (सोम: स्वर.सामन्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0