कौषीतकिब्राह्मण · अध्याय 24.7
साम्नोः.प्रगाथौ.पूर्वौ.शस्त्वा.कद्वतः.प्रगाथान्.शंसन्ति ।
उद्धरति.द्वेचांश्.च.सवन.धरणानि.च । (सोम: स्वर.सामन्)
तद्.आहुर्.न.अनुष्टुप्सु.निविदम्.दध्यान्.मोहयति.क्लृप्तच्.छन्दसो.मध्यंदिनम्.इति । (सोम: स्वर.सामन्)
आनुष्टुभानि.पूर्वाणि.शस्त्वा.कामस्य.उपाप्त्यै.त्रैष्टुभेषु.निविदम्.दधाति । (सोम: स्वर.सामन्)
अर्वाग्.रथम्.विश्व.वारम्.त.उग्र.इति.प्रथमे.अहन्य्.आवति.राथन्तरे । (सोम: स्वर.सामन्)
अपादित.उद्.उ.नश्.चित्रतम.इति.द्वितीय.उद्वति.बार्हते । (सोम: स्वर.सामन्)
सम्.च.त्वे.जग्मुर्.गिर.इन्द्र.पूर्वीर्.इति.तृतीये.गतवय्.अन्त.रूपे ।
तथा.यथा.यथम्.निविद्.धीयते । (सोम: स्वर.सामन्)
सा.एनान्.यथा.यथम्.धीयमाना.सर्वेषु.च.लोकेषु.सर्वेषु.च.कामेषु.यथा.यथम्.दधाति । (सोम: स्वर.सामन्)
यदि.स्वराणि.पृष्ठानि.भवन्ति ।
बृहद्.रथन्तरे.एव.तर्हि.सामगाह.पवमानेषु.कुर्वन्ति । (सोम: स्वर.सामन्)
यदि.बृहद्.रथन्तरे.पृष्ठे.स्याताम् ।
स्वराणि.तर्हि.सामगाः.पवमानेषु.कुर्वन्ति । (सोम: स्वर.सामन्)
स्वराणि.त्व्.एव.पृष्ठानि.स्युर्.इति.ह.स्म.आह.कौषीतकिः ।
स्वर.सामानो.ह्य्.एते । (सोम: स्वर.सामन्)
पृष्ठैर्.वै.देवाः.स्वर्गम्.लोकम्.अस्प्रक्षन् ।
तद्.यत्.स्वराणि.पृष्ठानि.भवन्ति ।
स्वर्गस्य.एव.लोकस्य.स्पृष्ट्या.इति । (सोम: स्वर.सामन्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0