कौषीतकिब्राह्मण · अध्याय 24.6
इत्य्.उ.वा.उ.प्रथमस्य ।
कद्.ऊ.न्व्.अस्य.अकृतम्.इति.कद्वान्.प्रगाथस्.तस्य.उक्तम्.ब्राह्मणम् ।
अथ.बृहतो.योनिस्.तस्या.उक्तम्.ब्राह्मणम् । (सोम: स्वर.सामन्)
स्वरन्ति.त्वा.सुते.नर.इति.द्वृचो.अनेक.पातितायै ।
न.इद्.असौ.बृहत्य्.एकाकिनी.इव.शस्ता.असद्.इति । (सोम: स्वर.सामन्)
अध्वर्यो.वीर.प्र.महे.सुतानाम्.इति.विज्ञात.त्रैष्टुभम्.सनव.धरणम्.तस्य.उक्तम्.ब्राह्मणम् ।
गायन्ति.त्वा.गायत्रिण.इत्य्.आनुष्टुभम्.निष्केवल्यम्.तस्य.उक्तम्.ब्राह्मणम् ।
उद्.वंशम्.इव.येमिर.इत्य्.उद्वद्.बार्हतम् । (सोम: स्वर.सामन्)
इत्य्.उ.वा.उ.द्वितीयस्य ।
इमा.उ.त्वा.प्रूरवसो.इति.प्रगाथः.पावक.वर्णाः.कवर्णा.इति.कद्वांस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: स्वर.सामन्)
अथ.रथन्तरस्य.योनिर्.अथ.बृहतस्.तयोर्.उक्तम्.ब्राह्मणम् ।
दाना.मृगो.न.वारण.इति.द्वृचो.अनेक.पातितायै । (सोम: स्वर.सामन्)
न.इद्.असौ.बृहत्य्.एकाकिनी.इव.शस्ता.असद्.इति ।
इदम्.त्यत्.पात्रम्.इन्द्र.पानम्.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्रह्मणम् । (सोम: स्वर.सामन्)
इन्द्रम्.विश्वा.अवीवृधन्न्.इत्य्.आनुष्टुभम्.निष्केवल्यम्.तस्य.उक्तम्.ब्राह्मणम् ।
त्वाम्.अभि.प्र.णोनुम.इत्य्.अभिवत् ।
तद्.राथन्तरम्.रूपम् । (सोम: स्वर.सामन्)
इत्य्.उ.वा.उ.तृतीयस्य ।
एवम्.नु.यदि.स्वर.पृष्ठा.भवन्ति ।
यदि.वा.स्वर.योनिषु.बृहद्.रथन्तरे.ऊढे.स्याताम् । (सोम: स्वर.सामन्)
एतद्.एव.शस्त्रम्.अविकृतम् ।
यद्य्.उ.बृहद्.रथन्तरे.पृष्ठे.कुर्युः ।
प्रजाता.स्तोत्रिया.अनुरूपा.बार्हत.राथन्तराः.प्रज्ञाता.धाय्या । (सोम: स्वर.सामन्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0