कौषीतकिब्राह्मण · अध्याय 24.5
आ.यज्ञैर्.देव.मर्त्य.इति.प्रथमस्य.स्वर.साम्न.आज्यम्.आवद्.राथन्तरम् ।
बृहद्.वयो.हि.भानव.इति.द्वितीयस्य.बृहद्.बार्हतम् । (सोम: स्वर.सामन्)
अग्न.ओजिष्ठम्.आ.भर.इति.तृतीयस्य.आवद्.राथन्तरम् ।
माधुच्छन्दसः.प्रथमस्य.स्वर.साम्नः.प्रौगः ।
गार्त्समदो.द्वितीयस्य । (सोम: स्वर.सामन्)
औष्णिह.आत्रेयस्.तृतीयस्य ।
तेषाम्.उक्तम्.ब्राह्मणम् ।
अन्वायत्ता.मरुत्वतीयानाम्.प्रतिपद्.अनुचरा.अन्वायत्ता.ब्राह्मणस्पत्यास्.त्र्यह.रूपेण । (सोम: स्वर.सामन्)
तेषाम्.उक्तम्.ब्राह्मणम् ।
क्व.स्य.वीरः.को.अपश्यद्.इन्द्रम्.इति.प्रथमस्य.स्वर.साम्नो.मरुत्वतीयम्.क्व.इति.कद्वत् । (सोम: स्वर.सामन्)
कया.शुभा.सवयसः.सनीडा.इति.द्वितीयस्य.कया.इति.कद्वत् ।
को.वै.प्रजापतिः ।
प्रजापतिः.स्वर.सामानः । (सोम: स्वर.सामन्)
यज्.जायथा.अपूर्व्या.इत्य्.एतस्मिन्न्.उ.ह.एके.बृहती.तृतीये.स्तोत्रिये.अन्वहम्.स्वराण्य्.अन्वायातयन्ति । (सोम: स्वर.सामन्)
ते.यदि.तथा.कुर्युः ।
एताव्.एव.स्तोत्रिया.अनुरूपाव्.एषा.धाय्या । (सोम: स्वर.सामन्)
कन्.नव्यो.अतसीनाम्.इति.कद्वान्.प्रगाथस्.तस्य.उक्तम्.ब्राह्मणम् ।
अथ.रथन्तरस्य.योनिस्.तस्या.उक्तम्.ब्राह्मणम् । (सोम: स्वर.सामन्)
यम्.इन्द्र.दधिषे.त्वम्.इति.द्वृचो.अनेक.पातितायै ।
न.इद्.असौ.बृहत्य्.एकाकिनी.इव.शस्ता.असद्.इति ।
इन्द्र.तुभ्यम्.इन्.मघवन्न्.अभूम.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: स्वर.सामन्)
यस्.ते.साधिष्ठो.अवस.इत्य्.आनुष्टुभम्.निष्केवल्यम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: स्वर.सामन्)
इन्द्र.क्रतुष्.टम्.आ.भर.इत्य्.आवद्.राथन्तरम् । (सोम: स्वर.सामन्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0