भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 24.4

24.4.1

स्वर्.भानुर्.ह.वा.आसुर.आदित्यम्.तमसा.अविध्यत् ।

24.4.2

तस्य.अत्रयस्.तमो.अपजिघांसन्त.एतम्.सप्तदश.स्तोमम्.त्र्यहम्.पुरस्ताद्.विषुवत.उपायन् । (सोम: स्वर.सामन्)

24.4.3

तस्य.पुरस्तात्.तमो.अपजघ्नुः ।

24.4.4

तत्.पुरस्ताद्.असीदत् ।

24.4.5

त.एतम्.एव.त्र्यहम्.उपरिष्टाद्.विषुवत.उपायन् ।

24.4.6

तस्य.उपरिष्टात्.तमो.अपजघ्नुः । (सोम: स्वर.सामन्)

24.4.7

तत्.परस्ताद्.असीदत् ।

24.4.8

तद्.य.एवम्.विद्वांस.एतम्.त्र्यहम्.उभयतो.विषुवन्तम्.उपयन्ति ।

24.4.9

उभाभ्याम्.एव.ते.लोकाभ्याम्.यजमानाः.पाप्मानम्.अपघ्नते । (सोम: स्वर.सामन्)

24.4.10

तान्.वै.स्वर.सामान.इत्य्.आचक्षते ।

24.4.11

एतैर्.ह.वा.अत्रय.आदित्यम्.तमसो.अस्पृण्वत । (सोम: स्वर.सामन्)

24.4.12

तद्.यद्.अस्पृण्वत ।

24.4.13

तस्मात्.स्वर.सामानः ।

24.4.14

तद्.एतद्.ऋचा.अभ्युदितम् ।

24.4.15

यम्.वै.सूर्यम्.स्वर्.भानुस्.तमसा.अविध्यद्.आसुरः ।

24.4.16

अत्रयस्.तम्.अन्वविन्दन्.न.अह्य्.अन्ये.अशक्नुवन्न्.इति । (सोम: स्वर.सामन्)

24.4.17

स्वर.सामानो.ह.वा.एतेन.अभ्युक्ताः ।

24.4.18

कद्वन्ति.मरुत्वतीयानि.भवन्ति ।

24.4.19

कद्वन्तो.निष्केवल्येषु.प्रगाथाः । (सोम: स्वर.सामन्)

24.4.20

को.वै.प्रजापतिः ।

24.4.21

प्रजापतिः.स्वर.सामानः ।

24.4.22

आनुष्टुभानि.निविद्धानानि.भवन्ति । (सोम: स्वर.सामन्)

24.4.23

आपो.वा.अनुष्टुप् ।

24.4.24

आपः.स्वर.सामानः ।

24.4.25

अद्भिर्.हि.इदम्.सर्वम्.अनुष्तब्धम् । (सोम: स्वर.सामन्)

24.4.26

उभयतो.ह्य्.अमुम्.आदित्यम्.आपो.अवस्ताच्.च.उपरिष्टाच्.च ।

24.4.27

तद्.एतद्.ऋचा.अभ्युदितम् ।

24.4.28

या.रोचने.परस्तात्.सूर्यस्य.याश्.च.अवस्ताद्.उपतिष्ठन्त.आप.इति । (सोम: स्वर.सामन्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc