भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 24.3

24.3.1

जनिष्ठा.उग्रः.सहसे.तुराय.इति.गौरिवीतम्.पूर्वम्.शस्त्वा.इन्द्र.पिब.तुभ्यम्.सुतो.मदाय.इत्य्.एतस्मिन्.बार्हते.पञ्चर्चे.निविदम्.दधाति ।

24.3.2

इन्द्रस्य.नु.वीर्याणि.प्र.वोचम्.इति.हैरण्य.स्तूपम्.पूर्वम्.शस्त्वा.या.त.ऊतिर्.अवमा.या.परमा.इत्य्.एतस्मिन्.बार्हते.नवर्चे.निविदम्.दधाति । (सोम: अभिजित्)

24.3.3

एवम्.नु.यदि.रथन्तरम्.पृष्ठम्.भवति ।

24.3.4

यद्य्.उ.बृहत् ।

24.3.5

बार्हते.पूर्वे.शस्त्वा.राथन्तरयोर्.निविदौ.दध्याद्.इति । (सोम: अभिजित्)

24.3.6

एक.सूक्ते.निष्केवल्य.मरुत्वतीये.स्याताम्.इति.सा.स्थितिः ।

24.3.7

पिबा.सोमम्.अभि.यम्.उग्र.तर्दस्.तम्.उ.ष्टुहि.यो.अभिभूत्य्.ओजा.इत्य्.अभिवती । (सोम: अभिजित्)

24.3.8

तद्.अभिजितो.रूपम् ।

24.3.9

अथ.नित्यम्.एव.ऐकाहिकम्.तृतीय.सवनम् ।

24.3.10

एकाहो.वा.अभिजित् ।

24.3.11

प्रतिष्ठा.वा.एकाहः.प्रतिष्ठित्या.एव । (सोम: अभिजित्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc