कौषीतकिब्राह्मण · अध्याय 24.2
वायव्याम्.पुरोरुचम्.शस्त्वा.अथ.उभे.वायव्ये.तृचे ।
ऐन्द्र.वायवीम्.पुरुरुचम्.शस्त्वा.अथ.उभे.ऐन्द्र.वायवे.तृचे ।
अथ.पुरोरुचम्.अथ.उभे.तृचे । (सोम: अभिजित्)
अथ.पुरोरुचम्.अथ.उभे.तृचे ।
एवम्.एव.सम्प्रवयेत् ।
माधुच्छन्दसान्य्.एव.पूर्वाणि.तृचानि.करोति.गार्त्समदान्य्.उत्तराणि । (सोम: अभिजित्)
तद्.उ.वा.आहुः.किम्.तद्.उभौ.सम्प्रवयेत् ।
माधुच्छन्दस.एव.प्रौगे.सति.गार्त्समदम्.वैश्वदेवम्.उपरिष्टान्.माधुच्छन्दसस्य.वैश्वदेवस्य.पर्याहरेत् । (सोम: अभिजित्)
तद्.वा.अत्र.एकम्.निरुक्त.बार्हतम् ।
विश्वे.देवास.आ.गत.शृणुता.म.इमम्.हवम् ।
आ.इदम्.बर्हिर्.नि.षीदत.इति । (सोम: अभिजित्)
बर्हिर्.इति.तद्.बार्हतम्.रूपम् ।
अथ.माधुच्छन्दसम्.सारस्वतम्.शस्त्वा.तस्य.एव.उत्तमया.परिदध्याद्.इति । (सोम: अभिजित्)
ऐकाहिकम्.प्रातः.सवनम्.स्याद्.इति.सा.स्थितिः ।
एकाहो.वा.अभिजित् ।
प्रतिष्ठा.वा.एकाहह.प्रतिष्ठित्या.एव । (सोम: अभिजित्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0