कौषीतकिब्राह्मण · अध्याय 24.1
अभिजित् ।
अभिजिता.वै.देवा.अभ्यजयन्न्.इमांस्.त्रींल्.लोकान् ।
तस्मात्.स.त्र्यावृच्.चतुर्.उदयो.भवति । (सोम: अभिजित्)
विश्वजिता.अजयन्न्.इमाश्.चतस्रो.दिशः ।
तस्मात्.स.चतुर्.आवृत्.त्र्य्.उदयो.भवति । (सोम: अभिजित्)
अभिजिद्.अभिजिता.वै.देवा.अभ्यजयन् ।
तद्.उ.ह.अन्व्.इव.एव.षषञ्ज ।
यद्.अजितम्.पर्यशिष्यत.तद्.विश्वजिता.अजयन् । (सोम: अभिजित्)
विश्वम्.अजैष्म.इति.वा.उ.विश्वजित् ।
तौ.वा.एताव्.इन्द्राग्नी.एव.यद्.अभिजिद्.विश्वजितौ ।
अग्निर्.एव.अभिजित् ।
अग्निर्.हि.इदम्.सर्वम्.अभ्यजयत् ।
इन्द्रो.विश्वजित् ।
इन्द्रो.हि.इदम्.सर्वम्.विश्वम्.अजयत् ।
स.वा.अभिजिद्.उभय.सामा.सर्व.स्तोमो.भवति । (सोम: अभिजित्)
रथन्तरम्.एव.अस्य.प्रत्यक्षम्.षष्ठम्.भवति ।
आर्भवे.पवमाने.बृहत् ।
तस्माद्.उभयानि.सूक्तानि.शस्यन्ते.बार्हत.राथन्तराणि । (सोम: अभिजित्)
तस्य.प्र.वो.देवाय.अग्नये.यद्.वाहिष्ठम्.तद्.अग्नय.इत्य्.एते.उभे.तद्.आज्यम् । (सोम: अभिजित्)
प्र.व.इति.तद्.राथन्तरम्.रूपम् ।
बृहद्.अर्च.विभावसो.इति.बृहद्.बार्हतिम् ।
उभौ.माधुच्छन्दस.गार्त्समदौ.प्रौगौ.सम्प्रवयेत् । (सोम: अभिजित्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0