कौषीतकिब्राह्मण · अध्याय 23.11
अभि.त्यम्.देवम्.सवितारम्.ओण्योः.कवि.क्रतुम्.इत्य्.अतिच्छन्दसा.वैश्वदेवम्.प्रतिपद्यते ।
आतिच्छन्दसम्.वै.षष्ठम्.अहः । (सोम: पृष्ठ्य.सदह)
तत्.तृतीय.सवनम्.अतिच्छन्दा.अभ्यश्नुते ।
अथो.प्राजापत्यम्.वै.षष्ठम्.अहः । (सोम: पृष्ठ्य.सदह)
अतिच्छन्दा.वै.प्रजापतिः ।
तत्.प्राजापत्यम्.रूपम् ।
अभिवान्.अनुवरस्.तस्य.उक्तम्.ब्राह्मणम् ।
उद्.उ.ष्य.देवः.सविता.सवाय.इति.सावित्रम् । (सोम: पृष्ठ्य.सदह)
सविता.सवाय.इति.निनर्तिः ।
अन्तः.षष्ठम्.अहः ।
नीव.वा.अन्तम्.गत्वा.नृत्यति । (सोम: पृष्ठ्य.सदह)
कद्र्यन्.हि.तत्.इयात् ।
कतरा.पूर्वा.कतरा.अपरायोर्.इति.द्यावा.पृथिवीयम् ।
पूर्व.अपरा.इति.निनर्तिः ।
अन्तः.षष्ठम्.अहः । (सोम: पृष्ठ्य.सदह)
नीव.वा.अन्तम्.गत्वा.नृत्यति ।
कद्र्यन्.हि.तत.इयात् ।
किम्.उ.श्रेष्ठः.किम्.यविष्ठो.न.आजगन्न्.इत्य्.आर्भवम् । (सोम: पृष्ठ्य.सदह)
श्रेष्ठो.यविष्ठ.इति.निनर्तिः ।
अन्तः.षष्ठम्.अहः ।
नीव.वा.अन्तम्.गत्वा.नृत्यति । (सोम: पृष्ठ्य.सदह)
कद्र्यन्.हि.तत.इयात् ।
इदम्.इत्था.रौद्रम्.गूर्त.वचा.इति.वैश्वदेवम् ।
क्राणा.यद्.अस्य.पितरा.मंहनेष्ठा.इति.स्थितवत् । (सोम: पृष्ठ्य.सदह)
तद्.अन्त.रूपम् ।
अन्तः.षष्ठम्.अहः ।
तिष्ठति.इव.वा.अन्तम्.गत्वा । (सोम: पृष्ठ्य.सदह)
कद्र्यन्.हि.तत.इयात् ।
अन्तः.षष्ठम्.अहः ।
तिष्ठति.इव.वा.अन्तम्.गत्वा ।
कद्र्यन्.हि.तत.इयात् । (सोम: पृष्ठ्य.सदह)
तस्य.द्वे.परिशिष्य.ये.यज्ञेन.दक्षिणया.समक्ता.इत्य्.एतम्.नाराशंसम्.आवपति । (सोम: पृष्ठ्य.सदह)
आत्मा.वै.सूक्तम्.प्रजा.पशवो.नाराशंसम् ।
मध्य.एव.तद्.आत्मन्.प्रजाम्.पशून्.उभये.दधाति । (सोम: पृष्ठ्य.सदह)
अहश्.च.कृष्णम्.अहर्.अर्जुनम्.च.इति.वैश्वानरीयम् ।
अहर्.अर्जुनम्.च.इति.निनर्तिः ।
अन्तः.षष्ठम्.अहः । (सोम: पृष्ठ्य.सदह)
नीव.वा.अन्तम्.गत्वा.नृत्यति ।
कद्र्यन्.हि.तत्.इयात् ।
प्रयज्यवो.मरुतो.भ्राज.दृष्टय.इति.मारुतम् ।
तस्य.तद्.एव.अन्त.रूपम्.यत्.सोदर्कम् । (सोम: पृष्ठ्य.सदह)
इमम्.स्तोमम्.अर्हते.जात.वेदस.इति.जातवेदसीयम् ।
तस्य.तद्.एव.अन्त.रूपम्.यत्.सोदर्कम् ।
मा.रिषाम.मा.रिषाम.इति ।
तद्.अन्ततो.अरिष्ट्यै.रूपम् ।
अपः.षष्ठेन.अह्ना.आप्नुवन्ति । (सोम: पृष्ठ्य.सदह)
अतिच्छन्दसम्.छन्दस्.त्रयस्.त्रिंशम्.स्तोमम्.रैवतम्.साम ।
अर्वाचीम्.दिशम्.शिशिरम्.ऋतूनाम् । (सोम: पृष्ठ्य.सदह)
विश्वान्.देवान्.देव.जातम् ।
प्रजापतिम्.अधिपतिम्.प्रजापतिम्.अधिपतिम् । (सोम: पृष्ठ्य.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0