कौषीतकिब्राह्मण · अध्याय 23.9
तद्.यत्.तद्.अहर्.होता.एव.वषट्.कुर्यात् ।
होता.एनयोर्.देव.आयतनम्.सम्पृञ्चीत.अध्वर्योश्.च.गृह.पतेश्.च । (सोम: पृष्ठ्य.सदह)
आजिम्.ह.वा.एते.यन्ति.स्वर्गे.लोके.षष्ठेन.अह्ना ।
स.यो.अनवानम्.समापयति.स.स्वर्गंल्.लोकम्.उज्जयति । (सोम: पृष्ठ्य.सदह)
यद्य्.अप्य्.अव.अन्यत् ।
पुनः.पुनः.प्रतिसारम्.उपशिक्षेत.एव ।
अयम्.जायत.मनुषो.धरीमणि.इत्य्.आज्यम् । (सोम: पृष्ठ्य.सदह)
अयम्.इत्य्.अनिरुक्तम् ।
अनिरुक्त.उ.वै.प्रजापतिः ।
तत्.प्राजापत्यम्.रूपम् । (सोम: पृष्ठ्य.सदह)
अतिच्छन्दस.सप्त.पदाः.पुनः.पदाः ।
यद्.एतद्.अहस्.तद्.एताः । (सोम: पृष्ठ्य.सदह)
न.पदम्.च.पुनः.पदम्.च.अन्तरेण.अव.अन्यत् ।
आत्मा.वै.पदम्.प्राणः.पुनः.पदम् । (सोम: पृष्ठ्य.सदह)
यस्.तम्.तत्र.ब्रूयात् ।
प्राणाद्.आत्मानम्.अन्तरगान्.न.जीविष्यति.इति.तथा.ह.स्यात् । (सोम: पृष्ठ्य.सदह)
तस्मान्.न.पदम्.च.पुनः.पदम्.च.अन्तरेण.अव.अन्यात् ।
आतिच्छन्दस.प्रौगः । (सोम: पृष्ठ्य.सदह)
आतिच्छन्दसम्.वै.षष्ठम्.अहः ।
तद्.एनत्.स्वेन.छन्दसा.समर्धयति । (सोम: पृष्ठ्य.सदह)
स.पूर्व्यो.महानाम्.इति.मरुत्वतीयस्य.प्रतिपत् ।
स.इत्य्.अनिरुक्तम् ।
अनिरुक्त.उ.वै.प्रजापतिः ।
तत्.प्राजापत्यम्.रूपम् । (सोम: पृष्ठ्य.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0