भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 23.8

23.8.1

नित्यान्.पूर्वान्.ऋतु.याजान्.कृत्वा.गार्त्समदीभिर्.यजन्ति ।

23.8.2

तद्.यद्.एभिस्.तद्.अहर्.न.वषट्.कुर्वन्ति । (सोम: पृष्ठ्य.सदह)

23.8.3

तेन.उत्सृष्टाः ।

23.8.4

यद्.व्.एव.एनान्.न.अन्तरयन्ति ।

23.8.5

न.इद्.अच्युतम्.यज्ञस्य.प्रियम्.देवानाम्.अन्तरयाम.इति । (सोम: पृष्ठ्य.सदह)

23.8.6

तेन.ते.अतिच्छन्दसो.भवति ।

23.8.7

तथा.एषाम्.सप्त.पदाभिर्.वषट्.कृतम्.भवति । (सोम: पृष्ठ्य.सदह)

23.8.8

तद्.उ.ह.स्म.आह.कौषीतकिः ।

23.8.9

विराड्.अष्टमानि.ह.वा.एतम्.छन्दांसि.गोपायन्ति.यो.असौ.तपति । (सोम: पृष्ठ्य.सदह)

23.8.10

ताम्.ते.सम्पदम्.मोहयन्ति.ये.अतिच्छन्दोभिर्.यजन्ति ।

23.8.11

तस्माद्.व्.ऐकाहिकीभिर्.एव.यजेयुः ।

23.8.12

देव.यानस्य.एव.पथो.असम्मुग्ध्या.इति । (सोम: पृष्ठ्य.सदह)

23.8.13

तद्द्.ह.अप्य्.अणीची.मौनो.जाबाल.गृहपतीन्त्.सत्रम्.आसीनाम्.उपासाद्य.पप्रच्छ । (सोम: पृष्ठ्य.सदह)

23.8.14

अह्नो.गात.परुच्छेपाद्.इति ।

23.8.15

त.उ.ह.तूष्णीम्.आसुः ।

23.8.16

तत्र.उ.ह.उत्तर.अर्धात्.सदसश्.चित्रो.गौश्रायणिर्.अभिपरोवाच । (सोम: पृष्ठ्य.सदह)

23.8.17

गौश्रो.वा ।

23.8.18

न.आह.एव.अह्नो.अगाम.न.परुच्छेपात् ।

23.8.19

शस्त्रेण.आह.नः.परुच्छेपो.अहर्.अन्वायतिष्ट ।

23.8.20

ऐकाहिकीभिर्.अयाक्ष्म । (सोम: पृष्ठ्य.सदह)

23.8.21

तेन.उ.अह्नो.न.अगाम.इति ।

23.8.22

यथा.यथम्.यजेयुः ।

23.8.23

देव.आयतनम्.वै.षष्ठम्.अहः । (सोम: पृष्ठ्य.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc