भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 23.10

23.10.1

यम्.त्वम्.रथम्.इन्द्र.मेधसातय.इति.पारुच्छेपम् ।

23.10.2

यः.शूरैः.स्वः.सनिता.इति.शूरैर्.इति.स.एव.अस्मिन्.परुन्.न्यङ्गः । (सोम: पृष्ठ्य.सदह)

23.10.3

स.यो.वृषा.वृष्ण्येभिः.समोका.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् ।

23.10.4

वृषा.वृष्ण्येभिर्.इति.निनर्तिः । (सोम: पृष्ठ्य.सदह)

23.10.5

अन्तः.षष्ठम्.अहः ।

23.10.6

नीव.वा.अन्तम्.गत्वा.नृत्यति ।

23.10.7

कद्र्यन्.हि.तत्.इयात् ।

23.10.8

मरुत्वान्.इन्द्र.मीढ्व.इति.मरुत्वतीयम्.गायत्रम् ।

23.10.9

गायत्र.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम: पृष्ठ्य.सदह)

23.10.10

रेवतीर्.नः.सधमादे.रेवान्.इव्द्.रेवतः.स्तोता.इति.रैवतस्य.योनौ.वारवन्तीयम्.ऊढम्.भवत्य्.आग्नेयम्.साम.ऐन्द्रीषु ।

23.10.11

तन्.मिथुनम्.प्रजात्यै.रूपम् ।

23.10.12

मा.चिद्.अन्यद्.वि.शंसत.इति.साम्नः.प्रगाथः ।

23.10.13

सखायो.मा.रिषण्यत.इति । (सोम: पृष्ठ्य.सदह)

23.10.14

सखाय.इति.सर्व.रूपम् ।

23.10.15

सर्व.रूपम्.वै.षष्ठम्.अहः ।

23.10.16

तस्मात्.सखाय.इति.सर्वान्.एव.अभिवदति । (सोम: पृष्ठ्य.सदह)

23.10.17

ऐन्द्र.याह्य्.उप.नः.परावत.इति.पारुच्छेपम् ।

23.10.18

परावत.इति । (सोम: पृष्ठ्य.सदह)

23.10.19

अन्तो.वै.परावतः ।

23.10.20

अन्तः.षष्ठम्.अहः ।

23.10.21

अन्ते.अन्तम्.दधाति ।

23.10.22

प्र.घा.न्व्.अस्य.महतो.महानि.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् ।

23.10.23

महतो.महानि.इति.निनर्तिः ।

23.10.24

अन्तः.षष्ठम्.अहः । (सोम: पृष्ठ्य.सदह)

23.10.25

नीव.वा.अन्तम्.गत्वा.नृत्यति ।

23.10.26

कद्र्यन्.हि.तत.इयात् ।

23.10.27

उप.नो.हरिभिः.सुतम्.इति.निष्केवल्यम् ।

23.10.28

याहि.मदानाम्.पत.उप.नो.हरिभिर्.इति.निनर्तिः ।

23.10.29

अन्तः.षष्ठम्.अहः ।

23.10.30

नीव.वा.अन्तम्.गत्वा.नृत्यति ।

23.10.31

कद्र्यन्.हि.तत.इयात् ।

23.10.32

गायत्रम्.गायत्र.मध्यंदिनो.ह्य्.एष.त्र्यहः । (सोम: पृष्ठ्य.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc