भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 23.7

23.7.1

पशवः.पञ्चमम्.अहर्.अथ.पुरुष.एव.षष्ठम्.अहः ।

23.7.2

स.वै.पुरुषः.प्रजापतिः.पूर्वो.अस्य.सर्वस्य । (सोम: पृष्ठ्य.सदह)

23.7.3

अतिच्छन्दा.वै.प्रजापतिः ।

23.7.4

तत्.प्राजापत्यम्.रूपम् ।

23.7.5

असुरि.इन्द्रम्.प्रत्यक्रमत.पर्वन्.पर्वन्.मुष्कान्.कृत्वा ।

23.7.6

ताम्.इन्द्रः.प्रतिजिगीषन्.पर्वन्.पर्वन्.शेपांस्य्.अकुरुत । (सोम: पृष्ठ्य.सदह)

23.7.7

इन्द्रो.वै.परुच्छेपः ।

23.7.8

सर्वम्.वा.इन्द्रेण.जिगीषितम् ।

23.7.9

ताम्.समभवत् । (सोम: पृष्ठ्य.सदह)

23.7.10

तम्.अगृह्णाद्.असुर.मायया ।

23.7.11

स.एताः.पुनः.पदा.अपश्यत् ।

23.7.12

ताभिर्.अङ्गाद्.अङ्गात्.पर्वणः.पर्वणः.सर्वस्मात्.पाप्मनः.प्रामुच्यते । (सोम: पृष्ठ्य.सदह)

23.7.13

तद्.यत्.षष्ठे.अहन्.परुच्छेपः.शस्यते.मध्यतश्.च.होत्रासु.च ।

23.7.14

अङ्गाद्.अङ्गाद्.एव.तद्.यजमानाः.पर्वणः.पर्वणः.सर्वस्मात्.पाप्मनः.सम्प्रमुच्यन्ते । (सोम: पृष्ठ्य.सदह)

23.7.15

नित्याः.पूर्वा.याज्याः.कृत्वा.पारुच्छेपीभिर्.यजन्ति ।

23.7.16

तद्.यद्.आभिस्.तद्.अहर्.न.वषट्.कुर्वन्ति । (सोम: पृष्ठ्य.सदह)

23.7.17

तेन.उत्सृष्टाः ।

23.7.18

यद्.व्.एव.एना.न.अन्तरयन्ति ।

23.7.19

न.इद्.अच्युतम्.यज्ञस्य.प्रियम्.देवानाम्.अन्तरयाम.इति । (सोम: पृष्ठ्य.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc