कौषीतकिब्राह्मण · अध्याय 23.6
तत्.सवितुर्.वरेण्यम्.इति.वैश्वामित्रो.अनुचरस्.तस्य.उक्तम्.ब्राह्मणम् ।
वाजयन्तः.पुरंध्या.इति.वाजवत् ।
तद्.एतस्य.अह्नो.रूपम् ।
उद्.उ.ष्य.देव.सविता.दमूना.इति.सावित्रम् । (सोम: पृष्ठ्य.सदह)
वामम्.अद्य.सवितर्.वामसु.श्व.इति.वामम्.इति.पशुमत् ।
पशुमद्.इति.वा.अस्य.रूपम् । (सोम: पृष्ठ्य.सदह)
मही.द्यावा.पृथिवी.इह.ज्येष्ठे.इति.द्यावा.पृथिवीयम् ।
रुवद्द्.ह.उक्षा.पप्रथानेभिर्.एवैर्.इत्य्.उक्षा.इति.पशुमत् ।
पशुमद्.इति.वा.अस्य.रूपम् ।
ऋभुर्.विभ्वा.वाज.इन्द्रो.नो.अच्छ.इत्य्.आर्भवम् । (सोम: पृष्ठ्य.सदह)
ये.गोमन्तम्.वाजयन्तम्.सुवीरम्.इति.गोमन्तम्.इति.पशुमत् ।
पशुमद्.इति.वा.अस्य.रूपम् । (सोम: पृष्ठ्य.सदह)
को.नु.वाम्.मित्रावरुणाव्.ऋतायन्न्.इति.वैश्वदेवम् ।
यज्ञायते.व.पशुषो.न.वाजान्.इति.पशुष.इति.पशुमत् । (सोम: पृष्ठ्य.सदह)
पशुमद्.इति.वा.अस्य.रूपम् ।
अध्यासवत्.तत्.पङ्क्ते.रूपम् ।
हविष्.पान्तम्.अजरम्.स्वर्विदि.इति.वैश्वानरीयम् । (सोम: पृष्ठ्य.सदह)
पान्तम्.इति.तत्.पञ्चमस्य.अह्नो.रूपम् ।
वपुर्.नु.तच्.चिकितुषे.चिद्.अस्त्व्.इति.मारुतम् । (सोम: पृष्ठ्य.सदह)
समानम्.नाम.धेनुपत्यमानम्.इति.धेन्व्.इति.पशुमत् ।
पशुमद्.इति.वा.अस्य.रूपम् ।
अग्निर्.होता.गृहपतिः.स.राजा.इति.जातवेदसीयम् । (सोम: पृष्ठ्य.सदह)
अवा.नो.मघवन्.वाजसाताव्.इति.वाजवत् ।
तद्.एतस्य.अह्नो.रूपम् ।
अध्यासवत्.तत्.पङ्क्ते.रूपम् ।
इति.नु.व्यूढे ।
अथ.समूढे । (सोम: पृष्ठ्य.सदह)
मूर्धानम्.दिवो.अरतिम्.पृथिव्या.इति.वैश्वानरीयम् ।
नाभिम्.यज्ञानाम्.सदनम्.रयीणाम्.इति.रयिमत् ।
रयिमद्.इति.वा.अस्य.रूपम् । (सोम: पृष्ठ्य.सदह)
आ.रुद्रास.इन्द्रवन्तः.सजोषस.इति.मारुतम् ।
गोमद्.अश्वावद्.रथवत्.सुवीरम्.इति.गोमद्.इति.पशुमत् । (सोम: पृष्ठ्य.सदह)
पशुमद्.इति.वा.अस्य.रूपम् ।
इमम्.ऊ.षु.वो.अतिथिम्.उषर्बुधम्.इति.जातवेदसीयम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)
अध्यासवत्.तत्.पङ्क्ते.रूपम् ।
पशून्.पञ्चमेन.अह्ना.आप्नुवन्ति ।
पङ्क्तिम्.छन्दस्.त्रिणवम्.स्तोमम्.शाक्वरम्.साम । (पृष्ठ्य.सदह)
ऊर्ध्वाम्.दिशम्.हेमन्तम्.ऋतूनाम् ।
मरुतो.देवान्.देव.जातम्.रुद्रम्.अधिपतिम् । (सोम: पृष्ठ्य.सदह)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0