भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 23.5

23.5.1

महानाम्न्यः.पृष्ठम्.भवन्ति ।

23.5.2

महानाम्नीभिर्.वा.इन्द्रो.वृत्रम्.अहन् । (सोम: पृष्ठ्य.सदह)

23.5.3

तम्.वृत्रम्.हत्वा.यन्तम्.देवताः.प्रत्युपातिष्ठन्त । (सोम: पृष्ठ्य.सदह)

23.5.4

पराच्यो.ह.अस्माद्.अग्रे.अपक्रान्ता.बिभ्यत्य्.अस्तस्थुः ।

23.5.5

तम्.प्रजापतिः.पप्रच्छ.अशको.हन्तुम्.इति । (सोम: पृष्ठ्य.सदह)

23.5.6

एवा.ह्य्.एव.इति.प्रत्युवाच.अनिरुक्तम् ।

23.5.7

अनिरुक्त.उ.वै.प्रजापतिः । (सोम: पृष्ठ्य.सदह)

23.5.8

तत्.प्राजापत्यम्.रूपम् ।

23.5.9

तम्.अग्निः.पप्रच्छ.अशको.हन्तुम्.इति ।

23.5.10

एवा.ह्य्.अग्न.इति.प्र्त्युवाच ।

23.5.11

तम्.स्वो.महिमा.पप्रच्छ.अशको.हन्तुम्.इति । (सोम: पृष्ठ्य.सदह)

23.5.12

स.ह.अस्माद्.अग्रे.अपक्रान्तो.बिभ्यत्.तस्थौ ।

23.5.13

एवा.हि.इन्द्र.इति.प्रत्युवाच । (सोम: पृष्ठ्य.सदह)

23.5.14

तम्.पूषा.पप्रच्छ.अशको.हन्तुम्.इति ।

23.5.15

एवा.हि.पूषन्न्.इति.प्रत्युवाच ।

23.5.16

तम्.देवाः.पप्रच्छुर्.अशको.हन्तुम्.इति । (सोम: पृष्ठ्य.सदह)

23.5.17

एवा.हि.देवा.इति.प्रत्युवाच । (सोम: पृष्ठ्य.सदह)

23.5.18

तानि.वा.एतानि.पञ्च.पदानि.पुरीषम्.इति.शस्यन्ते ।

23.5.19

सो.ऋच.एव.वेला ।

23.5.20

ता.वा.एताः.शक्वर्यः ।

23.5.21

एताभिर्.वा.इन्द्रो.वृत्रम्.अशकद्द्.हन्तुम् ।

23.5.22

तद्.यद्.आभिर्.वृत्रम्.अशकद्द्.हन्तुम् ।

23.5.23

तस्मात्.शक्वर्यः.शक्तयो.हि । (सोम: पृष्ठ्य.सदह)

23.5.24

प्रत्यस्मै.पिपीषते.यो.रयिवो.रयिंतमस्.त्यम्.उ.वो.अप्रहणम्.इति.त्रयस्.तृचाः ।

23.5.25

अस्मा.अस्मा.इदन्धस.इति.बृहतीम्.दशमीम्.करोति । (सोम: पृष्ठ्य.सदह)

23.5.26

एवा.ह्य्.असि.वीरयुर्.इति.त्व्.एव.स्थिता.पुरीषस्य.समान.अभिव्याहारा ।

23.5.27

तथा.स.स्तोत्रियेण.समो.वा.अतिशयो.वा.सम्पद्यते । (सोम: पृष्ठ्य.सदह)

23.5.28

यद्.इन्द्र.नाहुषीष्व्.एति.साम्नः.प्रगाथः । (सोम: पृष्ठ्य.सदह)

23.5.29

यद्.वा.पञ्च.क्षितीनाम्.इति.पञ्च.इति.तत्.पञ्चमस्य.अह्नो.रूपम् ।

23.5.30

इन्द्रो.मदाय.वावृध.इति.मद्वत्.पाङ्क्तम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)

23.5.31

प्र.इदम्.ब्रह्म.वृत्र.तूर्येष्व्.आविथा.इति.षट्.पदाः ।

23.5.32

तासाम्.उक्तम्.ब्राह्मणम् ।

23.5.33

अभूर्.एको.रयि.पते.रयीणाम्.इति.विज्ञात.त्रैष्टुभम्.सवन.धरणम्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: पृष्ठ्य.सदह)

23.5.34

रयि.पते.रयीणाम्.इति.रयिमत् ।

23.5.35

रयिमद्.इति.वा.अस्य.रूपम् ।

23.5.36

अध्यासवत्.तत्.पङ्क्ते.रूपम् । (सोम: पृष्ठ्य.सदह)

23.5.37

तम्.इन्द्रम्.वाजयामसि.इति.निष्केवल्यम् ।

23.5.38

स.वृषा.वृषभो.भुवद्.इति.वृषभवत् ।

23.5.39

तद्.एतस्य.अह्नो.रूपम् ।

23.5.40

गायत्र.माध्यन्दिनो.ह्य्.एष.त्र्यहः । (सोम: पृष्ठ्य.सदह)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc